Achievement : हिमाचलस्य वंशिका गोस्वामी अन्त:- १९ आयुवर्गे विश्वमुक्केबाजीप्रतियोगितायां स्वर्णपदकं प्राप्नोत्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
अमेरिकादेशस्य कोलोराडोनगरे आयोजिते विश्व- युवा- मुष्टामुष्टि- प्रतियोगितायां हिमाचलप्रदेशस्य मुष्टिमारिका वंशिका गोस्वामी ८० किलोग्रामाधिकभारविभागे स्वर्णपदकं प्राप्य इतिहासं विरचितवती। अस्य स्पर्धाया: आयोजनं २३ अक्तूबरतः ३ नवम्बरपर्यन्तं कृतम् आसीत्, यस्मिन् वंशिका अस्यां स्पर्धायां जर्मन-क्रीडकां गट्टी इत्येतत् अन्तिम-क्रीडायां नॉकआउट-द्वारा पराजयित्वा राज्यस्य प्रथमं स्वर्णपदकं प्राप्नोत् तस्या: सफलतायाः कारणात् राज्यस्य जनानां हृदयं गौरवेण पूरितं, राज्यस्य क्रीडा-इतिहासस्य नूतनं अध्यायं च योजितम् अस्ति। वंशिका काङ्गड़ामण्डलस्य ज्वालामुखी क्षेत्रेण सम्बन्धिता अस्ति। वंशिका हिमाचलप्रदेश- पुलिसमध्ये कार्यरतस्य शशिकान्त गोस्वामी- शालुगोस्वामी इत्यनयोः पुत्री अस्ति। वंशिका इत्यस्याः प्रारम्भिकप्रशिक्षणं तस्याः गृहमण्डलस्य समलोटीनगरोटा- इत्यस्मिन् राजकीय- वरिष्ठ- माध्यमिक- विद्यालये अभवत्, यत्र काङ्गड़ा-जनपदस्य प्रशिक्षकः कैलाश शर्मा तस्याः प्रतिभां निखारयित्वा मुष्टा मुष्टिक्रीडायां सम्यक् दिशां दत्तवान् राष्ट्रियस्तरस्य सः सोलनस्य मुख्यप्रशिक्षकस्य अमनप्रीतस्य मार्गदर्शनं प्राप्तवती, यस्य समर्थनस्य सफलतायां महत्त्वपूर्णा भूमिका आसीत्। पूर्वं वंशिका रोहतके आयोजितायां राष्ट्रियस्पर्धायां विजयं प्राप्तवती आसीत्, यस्य आधारेण सा विश्व- युवा- मुष्टामुष्टि- प्रतियोगितायाः चयनं कृतवती।