Finna Singh Project : फिन्नासिंहपरियोजनायै केन्द्रसर्वकारेण २८४ कोटिरुप्यकाणि अनुमोदितानि
हिमसंस्कृतवार्ता: – काङ्गड़ा।
नूरपुरविधानसभायाः अन्तर्गतं सुरयालीक्षेत्रे प्रचलितायै फिन्नासिंहमध्यमसिञ्चनपरियोजनायै २८४ कोटिरूप्यकाणां बजटं केन्द्रसर्वकारेण अनुमोदितं यत् परियोजनायाः समाप्तिः अपेक्षिता अस्ति। अस्याः सिञ्चनपरियोजनायाः आधारशिला २०११ तमे वर्षे स्थापिता परन्तु परियोजनायाः कृते समये एव बजटस्य अभावात् अद्यपर्यन्तं कार्यं सम्पन्नं न जातम्। अस्याः परियोजनायाः विषये एतावता केन्द्रात् कोऽपि बजटम् उपलब्धम् नासीत्, अधुना २०२४ तमस्य वर्षस्य अगस्तमासे अस्याः महत्त्वाकांक्षिणः सिञ्चनपरियोजनाय केन्द्रसर्वकारस्य बजटस्य अनुमोदनेन तस्य निर्माणकार्यं सुदृढं जातम्
२०४.५१ कोटिरूप्यकाणां व्ययेन फिन्नासिंहमध्यमसिञ्चनपरियोजनायाः आधारशिला 2011 तमे वर्षे स्थापिता, परन्तु समये पर्याप्तबजटस्य अभावात् अद्यापि सम्पन्नं न जातम्। एआइबीपी (Accelerated Irrigation Benefit Programme) इत्यस्य अन्तर्गतं केन्द्रेण स्वीकृतम् अस्ति, यस्मात् ९० प्रतिशतं केन्द्रेण, दश प्रतिशतं च राज्यसर्वकारेण व्ययितव्यम्। अस्यां परियोजनायां अद्यावधि सर्वकारेण प्रायः २८८ कोटिरूप्यकाणि व्ययितानि सन्ति । जलविद्युत्विभागेन केन्द्रात् प्रायः ४७ कोटिरूप्यकाणां बजटस्य प्रथमांशं विमोचयितुं आग्रहः कृतः येन मार्चमासपर्यन्तं निर्माणकार्यं सम्पन्नं भवेत्।