Fourlane Connectivity : चतुष्पंक्तिराजमार्गेण संयुक्तानि भविष्यन्ति राज्यस्य प्रमुखानि शक्तिपीठानि
हिमसंस्कृतवार्ता: – धर्मशाला।
उत्तरभारतस्य प्रसिद्धानि शाकपीठानि चतुष्पंक्तिराजमार्गेण सम्बद्धं कर्तुं योजनाः प्रचलन्ति। मातु: ज्वालामुख्या: बज्रेश्वरीदेव्या:, चामुण्डाया: अनन्तरं च चिंतपूर्णीं संयोजयितुं प्रस्तावेन धार्मिकपर्यटनस्य अपि प्रवर्धनं करिष्यति, सशक्तं पर्यटनपरिपथं च निर्मास्यति। राज्यस्य प्रसिद्धानां शक्तिपीठानां चतुष्पंक्तिर्मार्गपरिपथेन सह संयोज्य भक्ताः उत्तममार्गसंपर्कं प्राप्नुयुः। मातु: बज्रेश्वरीमन्दिरं भवतु वा मातु: ज्वालामुखीमन्दिरं, चामुण्डादेवी, माता चिंतपूर्णी माताबगलामुखी मन्दिराणि वा भवन्तु, प्रतिवर्ष लक्षश: फफफफभक्ताः अत्र आगच्छन्ति। एतादृशेषु सर्वाणि प्रमुखानि मन्दिराणि अधुना चतुष्पंक्तिराजमार्गेण सम्बद्धानि भवन्ति । मण्डी-पठानकोट-चतुष्पंक्ति-मार्गः पठियारत: गमिष्यति, जनानां कृते माँ चामुण्डायाः मन्दिरस्य दर्शनस्य सुविधा भविष्यति । शिमला-मटौर चतुष्पंक्तिराजमार्ग: माँ ज्वालादेवीमन्दिरं बज्रेश्वरीमन्दिरं च संयोजयिष्यति। रानीतालतः मुबारिकपुरपर्यन्तं ५० कि.मी.दीर्घः चतुष्पंक्तिर्मार्ग: अधुना माँचिन्तपुर्णीदेव्याः कृते उत्तमसुविधाः प्रदास्यति।
अन्ताराष्ट्रीयविमानस्थानकस्य निर्माणात् स्थिति: परिवर्तिष्यते
काङ्गरा-विमानस्थानकस्य अपि विस्तारः क्रियते । अत्र अन्ताराष्ट्रीयविमानस्थानकस्य निर्माणेन पर्यटकानाम् आगमनं वर्धते, पर्यटन-उद्योगाय महत् प्रवर्धनं च भविष्यति । हिमाचलसर्वकारेण अपि काङ्गड़ा पर्यटनराजधानी करणीयम् इति निर्णयः कृतः अस्ति, अस्याः दिशि प्रयत्नाः क्रियन्ते । सर्वा: परियोजना: शीघ्रमेव साकारा: भविष्यन्ति।
उपायुक्तः काङ्गड़ा हेमराज: बैरवा इत्यनेन उक्तं यत् हिमाचलप्रदेशः पर्यटकानां प्रथमा रुचि: अस्ति। तदतिरिक्तं महत्वपूर्णानां शक्तिपीठानां कारणात् लक्षश: धार्मिकपर्यटकाः अत्र आगच्छन्ति । चतुर्मार्गस्य निर्माणेन अत्र आगच्छन्ताम् भक्तानां कृते मार्गसंपर्कः उत्तमः भविष्यति। काङ्गड़ा-विमानस्थानकस्य विस्तारेण पर्यटकानां सङ्ख्यायां वृद्धि: भविष्यति। येन स्थानीयजनानाम् अपि लाभः भविष्यति।