भोपाल-परिसरे अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धा: आयोजिता:
(वार्ताहर:- प्रवेशकुमारशुक्ल:, भोपालम् ) संसूच्यन्ते केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपाल-परिसरे आश्विनशुक्लपूर्णिमात: कार्तिककृष्णद्वितीयापर्यन्तं त्रिदिवसीय अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक स्पर्धाया: समायोजनमभवत् । अयमखिलभारतीययुवमहोत्सवस्य किमपि उद्देश्यमवश्यमेव भवति यतो हि सुधय: निगदन्ति यत् प्रयोजमनुद्दिश्य न मन्दोSपि प्रवर्तते अत: सर्वेषां छात्राणां मानसिक-बौद्धिकादि सर्वांगीणविकासाय अयं अखिलभारतीययुवमहोत्सव: समनुष्ठित: । सर्वप्रथमं विविधेभ्य: परिसरेभ्य: आगता: छात्रा: एवञ्च परिसरीय आचार्या: कर्मचारिण: विद्यार्थिनश्च प्रात: अष्टवादने शोभायात्रायां समुद्गता:।
सर्वादौ प्रात: सप्तवादनात् परिसरीययज्ञमण्डपे डा० कालिकाप्रसादशुक्लमहोदयो:, डा० जीतेन्दतिवारिमहोदयो: आचार्यत्वेन हनुमत्पूजनपूर्वकं कार्यक्रमस्य शुभारम्भोSभवत्।अत: परं सरस्वतीदेव्या: समर्चनेन कार्यक्रमस्यारम्भ: अभवत् । समुद्घाटनसत्रे मुख्यातिथित्वेन मध्यप्रदेश- सर्वकारस्य महामहिमराज्यपाल:- श्रीमंगुभाईपटेलमहोदया: समुपस्थिता: । सारस्वतातिथित्वेन उज्जयिनीस्थ श्रीमहर्षिपाणिनिसंस्कृत एवं वैदिकविश्वविद्यालयस्य कुलपतिचरा: – प्रो० मिथिलाप्रसादत्रिपाठिमहाभागा: उपस्थिता: । विशिष्टातिथिरूपेण समागता: जयपुरस्थ भारतीययुवसंसदसंस्थापका: श्रीआशुतोषजोशी महोदया: । परिसरनिदेशका: प्रो० रमाकान्तपाण्डेयमहोदया: सभायामध्यक्षपदमलंकृतवन्त: । कार्यक्रमेSस्मिन् सहनिदेशका: प्रो० नीलाभतिवारिमहोदया: भारतीययुवमहोत्सवस्य विषये छात्रानवबोधितवन्त: । के० सं० विश्वविद्यालयस्य छात्रकल्याणसमिते: अध्यक्षा: प्रो० मदनमोहनझामहाभागा: आभारतस्थ सर्वेषां परिसराणां विषये सूक्ष्मपरिचयं प्रदत्तवन्त: । युवमहोत्सवस्य संयोजका: – प्रो० भारतभूषणमिश्रमहोदया आसन्। अस्या: सभाया: कुशलमञ्चसञ्चालनं डा० रमणमिश्रमहोदयै: कृतम्। प्रो० सोमनाथसाहु:, प्रो० अशोककछवाह, प्रो० सुबोधशर्मा, प्रो० कृपाशंकरशर्मा, डा० कालिकाप्रसादशुक्ल, डा०दातारामपाठक,डा० राकेशवर्मा, डा० कृष्णकांततिवारिप्रभृतय: आचार्या: तथा च परिसरीय सर्वेSपि प्राध्यापका: समुपस्थिता: आसन् ।