CM Sukhu : काङ्ग्रेसस्य राष्ट्रीयाध्यक्षेण मल्लिकार्जुनखड़गेवर्येण सह मिलितवान् मुख्यमन्त्री सुक्खु:, मस्जिदविवादं भाजपायाः षड्यंत्रम् इति उक्तवान्
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शुक्रवासरे नवीदिल्लीनगरे काङ्ग्रेसस्य राष्ट्रियाध्यक्षेण मल्लिकार्जुनखड़गे इत्यनेन सह मिलित्वा मस्जिदविवादसम्बद्धं स्थितिं स्पष्टीकृतवान्। मुख्यमन्त्री उक्तवान् यत् राज्ये भाजपानेतारः षड्यंत्रस्य भागरूपेण सौहार्दपूर्णं वातावरणं दूषितं कर्तुं प्रयतन्ते। अस्मिन् काले राष्ट्रियाध्यक्षं राज्यसर्वकारस्य, संस्थायाः च कार्याणि अपि सूचितवान्। शनिवासरे मुख्यमन्त्री केन्द्रीयमन्त्रिणः अन्यै: च वरिष्ठदलनेतृभिः सह मिलितुं प्रस्तावः अस्ति। मुख्यमन्त्री उक्तवान् यत् भाजपानेतृभिः अस्मिन् विषये राजनैतिकवर्णः दत्तः। राजनैतिकलाभान् प्राप्तुं राज्ये प्रवादं प्रसार्य वातावरणं दूषयितुं प्रयत्नः कृतः। मुख्यमन्त्री उक्तवान् यत् यथा प्रकरणाः प्रस्तुताः, तत् किमपि न अभवत्। दलस्य सूत्रेषु उक्तं यत् मुख्यमन्त्री राष्ट्राध्यक्षाय पथविक्रेतानीतिविषये अपि सूचितवान्। राज्ये पथविक्रेतृॄणां सुव्यवस्थायै समितिः निर्मिता इति कथितम्। समिते: अनुशंसाः मन्त्रिमण्डलस्य सत्रे चर्चां करिष्यन्ति। समागमे मुख्यमन्त्री राज्ये प्रचलितानां विविधानां योजनानां विषये अपि राष्ट्रियाध्यक्षं सूचितवान्। मुख्यमन्त्री केन्द्रसर्वकाराद् आर्थिकसाहाय्यं न प्राप्यते इति विषयः अपि उत्थापितः। हरियाणाप्रदेशे निर्वाचनप्रचारानन्तरं देहलीनगरं प्राप्तः मुख्यमन्त्री खड़गे इत्यस्मै तत्र राजनैतिकवातावरणस्य विषये अपि बोधितवान्। मुख्यमन्त्री उक्तवान् यत् जनानां मध्ये काङ्ग्रेसं प्रति उत्साहः वर्तते। हरियाणाप्रदेशे काङ्ग्रेससर्वकारस्य निर्माणं निश्चितम् इति विश्वासम् अकरोत्। समागमे मुख्यमन्त्री खड़गे इत्यनेन सह राज्यसङ्घटनस्य कार्याणां विषये अपि चर्चां कृतवान्।