Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्री नरेन्द्रमोदी रात्रौ न्यूयॉर्के संयुक्त राष्ट्र महासभायां “समिट ऑफ द फ्यूचर इति भविष्यते सम्मेलनं इति कार्यक्रम सम्बोधयिष्यति ।
- दशमं राष्ट्रमण्डल-संसदीय संघ-भारत-क्षेत्र-सम्मेलनम् सोमवासरे नव-दिल्ल्यां समारब्धम् ।
- सर्वोच्चन्यायालयेन प्रोक्तं यत् व्यक्तिगतरूपेण बालैः सम्पृक्तानाम् अभद्रचलच्चित्राणां दर्शनम् पॉक्सो अधिनियमस्य उल्लंघनम् अस्ति ।
- नेशनल पीपुल्स पावर इति दलस्य प्रमुखः अनुरा-कुमार-दिसानायके श्रीलङ्कादेशस्य नवमः कार्यकारि राष्ट्रपतिरूपेण शपथवचनं स्वीकृतवान्
- गतदिवसे प्रात: लेबनाने जातेषु इजरायलदेशस्य प्रहारेषु न्यूनातिन्यूनं शतं जनाः मारिताः चतुश्शततः अधिकाः जनाः व्रणिता: च।
हिमाचलवार्ता:
- पर्यटनस्य प्रचारार्थं, काङ्गड़ा-संस्कृतेः जनानां मध्ये प्रसारणार्थं धर्मशालायां २८ सितम्बरतः काङ्गड़ा उपत्यका कार्निवालस्य आयोजनं भविष्यति। अयं भव्यः कार्यक्रमः २८ सितम्बरतः १३ अक्तूबरपर्यन्तं धर्मशालानगरस्य पुलिस प्राङ्गणे प्रचलिष्यति। कार्निवालस्य २८ सितम्बरतः २ अक्तूबरपर्यन्तं सांस्कृतिकसन्ध्यायाः आयोजनं भविष्यति।
- राज्यसर्वकारेण राज्यस्य वंचितवर्गस्य बालकानां शिक्षाप्राप्त्यर्थं अनेकानि पदानि कृतानि सन्ति। सर्वकारेण डॉ. वाई. एस. परमार ऋणयोजना प्रारब्धा अस्ति। अस्य अन्तर्गतं आर्थिकदृष्ट्या दुर्बलवर्गस्य छात्राणां लाभाय ये विदेशेषु शिक्षां प्राप्तुम् इच्छन्ति तेषां लाभाय निर्णयः कृतः। एतेन उपक्रमेण विदेशेषु संस्थासु उच्चशिक्षां कर्तुम् इच्छतां छात्राणां मार्गे आर्थिकसीमाः न आगमिष्यन्ति।
- हिमाचलप्रदेश- राज्यचयन- आयोगस्य हमीरपुरस्य अध्यक्षाय प्रतिमासं १.३५ लक्षरूप्यकाणां वेतनं प्रदास्यते। एतदतिरिक्तं सदस्येभ्य: प्रतिमासं १.२० लक्षरूप्यकाणि प्रदत्तानि भविष्यन्ति।आयोगस्य अध्यक्षस्य सदस्यानां च नियमोपनियमानाम् विषये अधिसूचना कार्मिकविभागेन कृता अस्ति।
- हिमाचलप्रदेशे राज्यसर्वकारविरुद्धस्य विशालस्य आन्दोलनस्य मध्यं हिमाचलकाङ्ग्रेसस्य अध्यक्षा प्रतिभासिंहद्वारि महत्त्वपूर्णसभा आहूता आसीत्। शिमलानगरस्य राजीवभवने एषा सभा सम्पन्ना। सभाया: अध्यक्षता हिमाचलकाँग्रेसस्य अध्यक्षा प्रतिभासिंह अकरोत्। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उपमुख्यमन्त्री मुकेश: अग्निहोत्री इत्यादयः अनेके मन्त्रिमण्डलमन्त्रिणः सभायां नोपस्थिताः ।
- राज्यस्य लोकनिर्माणविभागस्य मन्त्री विक्रमादित्यसिंहः कङ्गनारनौताया: आरोपस्य प्रतिकारं कृतवान्। वस्तुतः कङ्गना इत्यस्याः आरोपः आसीत् यत् केन्द्रसर्वकारेण हिमाचलस्य कृते प्रदत्ता साहाय्यराशिः सोनियागान्धिन्या: कृते गच्छति, यस्य विषये विक्रमादित्यसिंहः उक्तवान् यत् एतेन तस्याः मानसिकं दिवालियापनं दृश्यते।