Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- अमेरिकादेशे रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य प्रत्याशी डोनाल्ड ट्रम्पः आगामिसप्ताहे प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह मेलिष्यति। ट्रम्पमहोदयः भारतेन सह अमेरिकीव्यापारविषये मिशिगननगरे वदन् एतां घोषणां कृतवान्।
- जम्मूकश्मीरे विधानसभा निर्वाचनस्य प्रथमचरणाय सप्त जनपदानां चतुर्विंशति आसनेभ्यः मतदानम् शान्तिपूर्णरीत्या सम्पन्नम्। सायं पञ्चवादनं यावत् अष्टपञ्चाशत् दशमलव- एकं नव प्रतिशतं मतदानं समनुष्ठितम्।
- केन्द्रीयप्रशासनेन एकं राष्ट्रम् एकं निर्वाचनमिति विषयमभिलक्ष्य निर्मितायाः उच्चस्तरीयायाः समित्याः अनुशंसाः स्वीकृताः।
- केन्द्रप्रशासनेन देशस्य विज्ञान-प्रौद्योगिक क्षेत्रयोः संवर्धनाय चन्द्रयानस्य चतुर्थाभियानाय वीनसआर्बिटर-इत्यस्मै अभियानायापि स्वीकृतिः प्रदत्ता।
- भारतीय-ऋतुविज्ञान-विभागेन मध्यप्रदेश-उत्तरप्रदेश, राजस्थानसहित ऐशान्यभारते च अत्यधिक वर्षायाः सम्भावना प्रकटिताऽस्ति ।
- भारतीय-बैडमिंटन-क्रीडिकया मालविका-बसोड इत्यनया चाइना ओपन-बैडमिंटन- क्रीडास्पर्धायां महिला-एकल-वर्गस्य प्रथमे चक्रे ग्रेगोरिया-तुनजुंग इत्येषा पराजिता।
हिमाचलवार्ता:
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे राष्ट्रियक्षय- उन्मूलनकार्यक्रमस्य अन्तर्गतं राष्ट्रियकार्यदलस्य द्विदिवसीयसमागमस्य अध्यक्षतां कृतवान्। अस्मिन् सत्रे देशस्य सर्वेभ्यः क्षयरोगविशेषज्ञाः भागं गृह्णन्ति। हिमाचलप्रदेशे द्वितीयवारं एतस्याः महत्त्वपूर्णायाः सभायाः आयोजनं भवति। मुख्यमन्त्री ‘मेरी टीबी की कहानी फेज-२’ इति उपक्रमस्य शुभारम्भं कृतवान्।
- काङ्ग्रेसस्य शीर्षनेतृत्वेन जम्मूकश्मीरे उपमुख्यमन्त्री मुकेश अग्निहोत्री वरिष्ठपर्यवेक्षकरूपेण नियुक्त:। अस्मिन् विषये काङ्ग्रेसस्य महासचिवः के. सी. वेणुगोपालः आदेशान् कृतवान् अस्ति। एते आदेशाः तत्कालं प्रभावेण कार्यान्विताः सन्ति।
- शिमलापुलिसः उपरिशिमलाक्षेत्रस्य विभिन्नेषु क्षेत्रेषु विद्युत् विद्युत्परावर्तकाणां चौर्येण सम्बद्धस्य गणस्य बन्धनं कृतवान्। विद्युत्परावर्तकाणां चौर्यसम्बद्धस्य गणस्य पञ्च सदस्याः पुलिसैः गृहीताः।
- राजकीय- प्राथमिक- शिक्षकसङ्घस्य प्रतिनिधिमण्डलेन बुधवासरे राज्याध्यक्षस्य जगदीशशर्मा इत्यस्य नेतृत्वे राज्यसचिवालये शिक्षामन्त्री रोहितठाकुरेण सह समागमः कृतः। अस्मिन् अवसरे शिक्षामन्त्री उक्तवान् यत् २०२३ तमस्य वर्षस्य तुलनायां सर्वकारीयविद्यालयेषु छात्राणां संख्या ५१ सहस्रन्यूनीकृता अस्ति। सर्वकारीविद्यालयेषु छात्राणां संख्या न्यूना भवति।
- हिमाचलः उत्तरक्षेत्रस्य एथलेटिक-मेलनस्य आतिथ्यं हारितवान् अस्ति। अस्य आयोजनं धर्मशालायाः सिंथेटिक-पट्टिकायां अक्तूबरमासस्य ७ तः ९ पर्यन्तं भवितुम् अर्हति स्म, परन्तु एथलेटिकमेलनं दिल्लीनगरे भविष्यति। कथ्यते यत् क्रीडाविभागस्य सहकार्यस्य अभावात्, प्रतियोगितायाः प्रायोजकानाम् अभावात् च राज्यस्य एथलेटिक्ससङ्घेन अस्य आयोजनस्य विषये चिन्ता प्रकटिता आसीत्।