Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य अहमदावादनगरे अष्टौ सहस्रकोटिरुप्यकाणां विभिन्नानां परियोजनानाम् उद्घाटनं शिलान्यासं च अकरोत्।
- भाजपेति दलस्य वरिष्ठः नेता गृहमन्त्री अमितशाहः अवदत् यत् केन्द्र- शासित प्रदेशे जम्मू-कश्मीरे भयोत्पादनस्य पुनरुत्थानं कर्तुं प्रयत्नाः क्रियन्ते परन्तु तत्र अस्माभिः तथा आतंकवादः भूमिसात् करिष्यते यत् पुनरुत्थानं तस्य नैव कदाचित् भवितुं शक्रोति ।
- जम्मूकाश्मीरे प्रथमचरणीय-विधान-सभानिर्वाचनस्य प्रचाराभियानमम् सोमवासरे सम्पन्नम्।
- अष्टमस्य भारतजल-सप्ताहः चतुर्विंशत्यधिकद्विसहस्रं भौमवासरादारभ्यः नवदेहल्यां आरप्स्यते। राष्ट्रपतिः द्रौपदीमुर्मुः भारत-मण्डपे अस्य कार्यक्रमस्य उद्घाटनं करिष्यति।
- एशियाचैम्पियन-हाकीप्रतिस्पर्धायां भारतेन दक्षिणकोरिया इति दलं चतुर- एकेन इति अन्तरालेन उपान्त्यचक्रे पराजितम्। अन्तिमचक्रे भारतं चीनदेशेन सह स्पर्धिष्यते।
हिमाचलवार्ता:
- जलविद्युत्क्षमतायां सर्वोत्तमप्रदर्शनार्थं हिमाचलप्रदेशः वैश्विकनवीकरणीय ऊर्जानिवेशकसम्मेलने एवं एक्स्पो इत्यस्मिन् च समग्रजलविद्युत्क्षमतायां सर्वोच्चसाधकराज्येन पुरस्कृतः। गुजरातस्य गान्धीनगरे आयोजिते वैश्विक-नवीकरणीय–ऊर्जा निवेशकसम्मेलने एवं एक्स्पो इत्यस्मिन् च केंद्रीयनवीन-एवं- नवीकरणीय-ऊर्जामंत्री प्रह्लाद: जोशी हिमाचलप्रदेशाय प्रमाणपत्रं प्रदत्तवान्।
- अ-राजपत्रित कर्मचारी महासंघस्य अध्यक्षस्य त्रिलोकठाकुरस्य नेतृत्वे स्थितः प्रतिनिधिमण्डलः राज्यसचिवालये मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना सह अमिलित्। अस्मिन् कालखण्डे संघेन अराजपत्रितकर्मचारिणां समस्यानां, आग्रहाणां च विषये मुख्यमन्त्रिणं सूचितम्। तथा च शीघ्रमेव जेसीसी- आह्वयितुं प्रार्थित:।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे शिमलातः आभासीय- माध्यमद्वारा राष्ट्रियवार्ताप्रसारणस्य कार्यक्रमे भागं गृहीत्वा अवदत् यत् वर्तमानराज्यसर्वकारेण ‘व्यवस्थापरिवर्तनस्य’ नूतनपरिकल्पनाद्वारा स्वावलम्बी हिमाचलस्य आधारः स्थापितः। राज्यसर्वकारेण राज्यस्य वित्तीय- अर्थव्यवस्थायाः उन्नयनार्थं, सामान्यजनानाम् कल्याणं च सुनिश्चित्य अनेकानि दृढ़पदानि कृतानि सन्ति इति सः अवदत्।
- राजधान्यां शिमलायां संजौली इत्यस्य अनन्तरं अधुना कसुम्पटीक्षेत्रे कथितस्य मस्जिदस्य विषये विवादे वक्फ बोर्डस्य पक्षः अग्रे आगतः। बोर्डः कथयति यत् कसुम्पटीक्षेत्रे यत्र निर्माणस्य विवादः भवति तत् वक्फ बोर्डस्य भूमिः अस्ति। राजस्व अभिलेखानुसारं एषा भूमिः बोर्डस्य नामधेयेन अस्ति। एतत् एव न, अत्रत्याः मस्जिदः अपि स्वातन्त्र्यात् पूर्वं निर्मितः आसीत्।