Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- केन्द्रीय मंत्रिमंडलेन द्वादश नूतनानि ग्रीनफील्ड औद्योगिक स्मार्ट सिटी इत्येतानि नगराणि अनुमोदितानि।
- प्रधानमंत्री-जन-धन-योजनायाः दशवर्षाणि पूरितानि। अस्याः योजनायाः अन्तर्गतं त्रिपञ्चाशत् कोटित: अधिकांशतः लाभार्थिनः लाभान्विताः जाताः ।
- बुधवासरे जम्मू-कश्मीरे विधानसभा निर्वाचनस्य प्रथम चरणाय नामांकन-पत्रस्य निरीक्षणं प्रचलति ।
- पथपरिवहनराजमार्गमन्त्री नितिनगडकरी ह्य: उक्तवान् यत् देशे मार्गदुर्घटनानां न्यूनीकरणाय सर्वकारः अनेकानि प्रमुखाणि पदानि गृह्णाति। सः षष्ठं FICCI मार्गसुरक्षापुरस्कारं सम्मेलनं च २०२४ सम्बोधितवान्
हिमाचलवार्ता:
- हिमाचलप्रदेशे कर्मचारिणां सर्वकारस्य च द्वन्द्वः वर्धमानः अस्ति। अधुना सर्वकारस्य कर्मचारिण: नेतारं प्रति अतीव क्रुद्धाः इव दृश्यन्ते। राज्यसर्वकारेण दशकर्मचारिनेतृभ्यः सूचनापत्रं निर्गत्य तेभ्य: उत्तराणि याचितानि। कर्मचारीनेतृभ्यः प्रतिक्रियायै १५ दिवसानां समयः दत्त: अस्ति।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् सर्पदंशप्रकरणानां समये चिकित्सा सुनिश्चित्य प्रत्येकस्मिन् प्राथमिकचिकित्साकेन्द्रे विषरोधक- सूच्यौषधम् स्थापितं भविष्यति। एतानि १०८ आपत्किलीनयानेषु (एम्बुलेन्स) अपि उपलभ्यन्ते। सः अवदत् यत् यदि चिकित्साप्रतिवेदनं न उपलब्धं भवति तर्हि सम्बन्धितपंचायतप्रमुखेन स्थानीयप्रशासनेन च सत्यापनानन्तरं क्षतिपूर्तिव्यवस्थां कर्तुं विचारः क्रियते।
- तिब्बतीनाम् आध्यात्मिकगुरु: दलाईलामा मासद्वयानन्तरं बुधवासरे मैक्लोडगञ्जनगरं प्रत्यागतवान्। धार्मिकगुरो: दलाई लामा इत्यस्य काङ्गड़ाविमानस्थानकात् मैक्लोडगंजपर्यन्तं सहस्रभि: अनुयायिभिः पारम्परिकसङ्गीतवाद्यैः, नृत्यै:, पुष्पैः च भव्यं स्वागतं कृतम्।