Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्री नरेन्द्रमोदी यूक्रेनदेशस्य द्विदिवसीय यात्रायाः द्वितीये अन्तिमे च चरणे शुक्रवासरे कीवनगरं प्राप्तवान्। प्रधानमन्त्रिणा नरेन्द्रमोदिना यूक्रेनदेशस्य राष्ट्रपतिना बोलोडिमिर् ज़ेलेन्स्कीइत्यनेन सह प्रतिनिधिस्तरीयसम्मेलनं कृतम्।
- रक्षामन्त्री राजनाथसिंहः अवोचत् यत् भारतामेरिका-देशौ स्वाभाविकौ सहयोगिनौ स्तः। अपि च द्वयोर्मध्ये सहभागित्वं सुनिश्चितमस्ति।
- भारतेन शुक्रवासरे स्वकीयः प्रथमान्तरिक्षदिवसः आचरित:। विगतवर्षे अस्मिन्नेव दिवसे चन्द्रयान- तृतीयाभियानेन चन्द्रमसः तले विक्रमलेण्डर इत्यस्य सुरक्षितं सौम्यावतरणं च सम्पूरितम्। अनया महदुपलब्धिना सह भारतम् अन्तरिक्ष-यात्रिणां देशानां विशिष्टसमूहे समाविष्टम्।
- शिक्षामन्त्रालयेन सर्वेभ्यः राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च एकविंशत्यधिकद्विसहस्र- तमवर्षस्य विद्यालयीय-सुरक्षा-दिनिर्देशस्य अनुपालनाय निर्देशः प्रदत्तः।
- अमेरिकादेशस्य उपराष्ट्रपति-पदासीना कमला हैरिस् चतुर्विंशत्यधिक-द्विसहस्रतमस्य वर्षस्य डेमोक्रेटिक पार्टीति दलस्य राष्ट्रपतिपदस्य नामाङ्कनम् औपचारिकरूपेण स्वीकृतवती।
हिमाचलवार्ता:
- हिमाचलप्रदेशविधानसभायाः मानसूनसत्रे राज्यसचिवालयस्य, विधानसभायाः च कर्मचारिण: कृष्णवर्णीयफलकधारिणः कार्यं करिष्यन्ति। महार्घतावृत्ति: अवशिष्टांशंस्य च न दत्तं इति कारणेन क्रुद्धः राज्यसचिवालयकर्मचारिसेवासङ्घः शुक्रवासरे सचिवालयपरिसरस्य सामान्यसभायां एतां घोषणां कृतवान्।
- मुख्यमन्त्रिण: प्रधानपरामर्शक: (मीडिया) नरेश चौहान: उक्तवान् यत् राज्यसर्वकारः कर्मचारीमैत्रीपूर्णः अस्ति। स्वस्य वचनं पूरयन् सर्वकारः प्रथमे मन्त्रिमण्डलसभायां एव पुरातनवृत्तिं पुनः स्थापयित्वा १ लक्षं ३६ सहस्रं कर्मचारिभ्यः तेषाम् अधिकारं दत्तवान्। अतः कर्मचारिभिः सर्वकारेण सह वार्तालापद्वारा विषयस्य समाधानं करणीयम्।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् राज्यसर्वकारः राज्ये उत्तमपर्यटनसुविधाः प्रदातुं प्रतिबद्धः अस्ति। अस्मिन् दिशि विमानसेवाः सुदृढाः क्रियन्ते। राज्यसर्वकारः उत्तमपर्यटनमूलसंरचनायाः विकासेन पर्यटकानां संख्यायां वृद्धिं सुनिश्चितं कुर्वन् अस्ति, येन क्षेत्रीय अर्थव्यवस्थायाः उन्नतिः भविष्यति।
- गग्गलविमानस्थानकविस्तारसम्बद्धा प्रक्रिया शीघ्रमेव आरभ्यते। एकमासपर्यन्तं आक्षेपाणां पञ्जीकरणानन्तरं भूतलस्तरस्य कार्यं भविष्यति। विमानस्थानकविस्तारे स्थानानुसारं क्षतिपूर्तिः प्रदत्ता भविष्यति इति कथ्यते। प्रथमचरणस्य विद्यमानगग्गलविमानस्थानकस्य समीपस्थेषु क्षेत्रेषु समाहितानां मोहल्लायाः विस्थापितपरिवारानाम् क्षतिपूर्तिः प्रदत्ता भविष्यति।