Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता: / Himsanskritnews
- भारतीय-चिकित्सा संघेन आई.एम.ए. इत्यनेन पश्चिम बंगाल-राज्यस्य आर.वी.कर मेडिकल-कॉलेज-प्रकरणे प्रधानमन्त्री नरेन्द्र मोदि-पक्षतः स्वास्थ्य-कार्मिकाणां सुरक्षायै केन्द्रीय-विधि-विनिर्माण-प्रस्तावस्य अभ्याचना कृतास्ति।
- राष्ट्रपतिना श्रीमत्या द्रौपदी-मुर्मू-वर्यया जनाः रक्षा-बन्धन- पर्वणि शुभाशिताः। स्वीये सन्देशे राष्ट्रपतिना भणितं यत् रक्षाबन्धन-पर्व भ्रातुः भगिन्याः अपूर्व बन्धनस्य प्रतीको वर्तते।
- गृहमंत्री अमितशाहः अवदत् यत् नागरिकता-संशोधन अधिनियम-सी.ए.ए, इत्यनेन कस्यापि धर्मस्य नागरिकस्य नागरिकतायाः समापनं नैव भविष्यति, अपितु एतस्य अधिनियमस्य माध्यमेन भारतीय-शरणार्थि-जनाः नागरिकतायाः ससम्मानं न्यायं च प्राप्नुवन्ति।
- नेपालदेशस्य विदेशमंत्री डॉ आरजू राणा देउवा रविवासरे पञ्चदिवसीया-भारत-यात्रार्थ नवदिल्ल्यां सम्प्राप्तवती। यात्रावधौ सा विदेशमंत्री डॉ. एस. जयशंकरेण सह द्विपक्षीय-विषयेषु परिचर्चा विधास्यति।।
- विदेशमंत्री सुब्रमण्यम-जयशंकरः एकदिवसीय यात्रार्थं कुवैत नगरं सम्प्राप्तवान्। यात्रावधौ देशद्वयं राजनीति-व्यापार-विनिवेश-ऊर्जा-सुरक्षा-संस्कृति-जनसंपर्क- इत्यादयः विषयेषु द्विपक्षीय-सम्बंधानां विभिन्न चरणानां समीक्षा करिष्यन्तिा
हिमाचलवार्ता: / Himsanskritnews
- हिमाचलप्रदेशे मानसूनर्तौ २७ जूनतः १६ अगस्तपर्यन्तं मेघविस्फोटस्य जलप्रलयस्य च ५१ घटनासु ३१ जनाः मृताः। एषा सूचना राज्यस्य आपत्कालीनसञ्चालनकेन्द्रेण दत्ता। मानसूनः जूनमासस्य २७ दिनाङ्के हिमाचलप्रदेशं प्राप्तवान्। जूनमासस्य २७ दिनाङ्कात् अगस्तमासस्य १६ दिनाङ्कपर्यन्तं मेघविस्फोटस्य जलप्लावनस्य च ५१ घटनासु ३१ जनाः मृताः, ३३ जनाः अदृश्याः च।
- शिमलाजनपदस्य उपतहसीलतकलेचस्य डमरालीक्षेत्रे अगस्तमासस्य १६ दिनाङ्के रात्रौ मेघविस्फोटस्य कारणेन अवरुद्धः रामपुर-तकलेचमार्गः यातायातस्य कृते पुनर्स्थापितः अस्ति। मार्गस्य पुनर्स्थापनमात्रेण सेबभारयुक्तानि वाहनानि, मार्गपरिवहननिगमस्य बससेवा च आरब्धा, उद्यानपालकै: सहिताः सहस्रश: जनाः निःश्वासं गृहीतवन्तः।
- कारयानस्य विण्डस्क्रीन् मध्ये भिण्डरवाले इत्यस्य छायाचित्रस्य विरोधे तस्य चित्रं सामाजिकमाध्यमेषु पोस्ट् कृत्वा चम्बाजनपदस्य बनीखेतनगरस्य एकः युवकः खालिस्तानी-संतर्जना प्राप्नोति। प्रकरणम् एतावत् दूरं गतः यत् यदा युवकः पुलिसं टैगं कृत्वा एक्स इत्यत्र साहाय्यं याचितवान् तदा मण्डीतः भाजपासांसद कङ्गनारणौत पुलिसस्य समक्षं स्वसमर्थनं प्रसारितवती।
- कोलकातानगरस्य चिकित्सामहाविद्यालये प्रशिक्षुमहिलावैद्यस्य उपरि या क्रूरता अभवत् तदनन्तरं सम्पूर्णे देशे कोलाहलः वर्तते। इतरथा आईजीएमसी शिमला इत्यस्य बालिकाछात्रावासस्य चतुर्थतलात् पतित्वा एकः युवकः मृतः। युवकः बालिकाछात्रावासं कथं प्राप्तवान् इति प्रश्नः उत्थापितः अस्ति। आईजीएमसी बालिकाछात्रावासस्य सुरक्षाव्यवस्था अपि अधुना प्रश्ने आगता।