कोलकातानगरे चिकित्सकाया हत्या विषये महारोषः
हिमसंस्कृतवार्ताः। कोलकातानगरे एकस्मिन् सर्वकारीय चिकित्सालये महिला चिकित्सायाः हत्यायाः प्रकरणं प्रकाशे आगतं, येन सम्पूर्णे क्षेत्रे महारोषस्य स्थितिः वर्तते। प्रकरणे अस्मिन् दोषीणां विषये पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी क्रुद्धा अस्ति। ममता बनर्जी इत्यनया उक्तं यत् यदि आवश्यकं चेत् दोषिभ्यः पाशे बद्धवा मृत्युदण्डः भविष्यन्ति। उल्लेखनीयं यत् कोलकातानगरस्य एकस्मिन् सर्वकारीये चिकित्सालये कार्यरतायाः पीजीटी-चिकित्सकायाः मृतदेहः शुक्रवासरे अर्धनग्नावस्थायां मिलितः अभवत्। एषा महिला वैद्या चिकित्सालयस्य वक्षःस्थलरोगचिकित्साविभागस्य द्वितीयवर्षस्य छात्रा आसीत् । ममता बनर्जी इत्यनया एषा घटना अत्यन्तं दुर्भाग्यपूर्णा इति वर्णिता अस्ति । सा पुष्टिम् अकरोत् यत् हत्यायाः आरोपिणः गृहीताः सन्ति।
मुख्यमन्त्री उक्तवती यत् मया निर्देशः दत्तः यत् प्रकरणं द्रुतमार्गन्यायालये नेतव्यम् इति। आवश्यके सति अपराधिभ्यः मृत्युदण्डः भविष्यन्ति। घटनायाः अनन्तरं चिकित्सालयस्य बहिः चिकित्साशास्त्रस्य छात्राः, भाजपा, काङ्ग्रेस, वामपक्षः च विरोधं कृतवन्तः। पश्चिमबङ्गस्य भाजपानेता सुवेन्दु अधिकारी इत्यनेन सीबीआइ-अन्वेषणस्य आग्रहः कृतः।
कोलकातानगरे चिकित्सकाया हत्या विषये महारोषः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment