हिमाचलस्य विद्यालयेषु प्रतिदिनं प्रार्थनासभासु राष्ट्रध्वजोत्तोलनं कर्तुं निर्णयः : मुख्यमंत्री
हिमसंस्कृतवार्ता: – शिमला ।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारः छात्राणां समग्रं समावेशी च विकासं सुनिश्चितं कर्तुं प्रतिबद्धः अस्ति। छात्राणां मध्ये राष्ट्रवादस्य देशभक्तेः च भावनां जागरयितुं राज्यसर्वकारेण राज्यस्य सर्वेषु विद्यालयेषु राष्ट्रगीतेन सह प्रातःकाले प्रार्थनासमागमस्य आयोजनं कर्तुं निर्णयः कृतः। एतदतिरिक्तं सर्वेषु उच्च- वरिष्ठ- माध्यमिक- विद्यालयेषु प्रतिदिनं राष्ट्रियध्वजोत्तोलनम् अनिवार्यं कर्तुं अपि निर्णयः कृतः। मुख्यमन्त्री उक्तवान् यत् एतादृशानि कार्याणि युनां सन्ततौ एकतायाः, देशभक्तेः च भावः जागृताः भविष्यन्ति। तेन सह छात्राः भविष्ये राष्ट्रस्य उत्तरदायी नागरिकाः भविष्यन्ति। सः अवदत् यत् वर्तमानराज्यसर्वकारेण प्रभारं स्वीकृत्य शिक्षाव्यवस्थायां विविधानि विकासात्मकानि पदानि स्वीकृतानि, एते निर्णयाः शिक्षाव्यवस्थायां सकारात्मकं परिणामं दर्शयन्ति। छात्राणां शारीरिकविकासः सुनिश्चित्य राज्यसर्वकारेण शारीरिकशिक्षां योगं च पाठ्यक्रमे अनिवार्यविषयान् कर्तुं निर्णयः कृतः। एतेन सह सर्वेषु विद्यालयेषु छात्राः प्रतिदिनं न्यूनातिन्यूनं १५ निमेषान् यावत् शारीरिकव्यायामं करिष्यन्ति। अस्मिन् काले शारीरिकशिक्षकाः अन्ये च शिक्षकाः छात्राणां व्यायामं प्राप्तुं सुनिश्चितं करिष्यन्ति। सः अवदत् यत् स्वास्थ्यस्य आयुषविभागस्य च सहकारेण छात्राणां कृते सीपीआर-प्राथमिकचिकित्सायाः प्रशिक्षणमपि दीयते, येन छात्राः जीवनरक्षककौशलस्य ज्ञानं प्राप्नुयुः। मुख्यमन्त्री उक्तवान् यत् एते विकासा: समग्रशिक्षाप्रदानार्थं राज्यसर्वकारस्य प्रतिबद्धतां प्रदर्शयन्ति। राज्यसर्वकारस्य एष: उपक्रमः शैक्षणिकज्ञानेन सह छात्राणां शारीरिक-मानसिकरूपेण सुदृढीकरणे सहायकं भविष्यति, तेषु आदर्शनागरिकाणां दायित्वं च प्रवर्तयिष्यति। एतानि कार्याणि छात्राणां दैनन्दिनकार्यक्रमे समावेश्य तेषु राष्ट्रवादस्य भावः जागृत्य एकीकृतभारतस्य निर्माणार्थं सज्जीकर्तुं सर्वकारस्य उद्देश्यम् अस्ति।