Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- संसदः वित्त-सङ्कल्पना-सत्रं सोमवासरे आरब्धम्। वित्तमन्त्री निर्मला सीतारमण उभयोः सदनयोः त्रयोविंशत्युत्तर-चतुविंशत्युत्तर-द्वि-सहस्र-तमवर्षीयम् आर्थिक-सर्वेक्षणं प्रास्तौत्।
- आर्थिकसर्वेक्षणे वास्तविकसकल- गृहोत्त्पादस्य वृद्धे: परिमितिः प्रतिशतं सार्धषट्-मितात् सप्तमिताभ्यन्तरे स्थास्यति इति अनुमीयते। रिजर्व वित्तकोषेनापि प्रवर्तमान-वितवर्षे मुद्रास्फीतिः प्रतिशतं दशमलवोतर-पञ्चाधिक-चतुर्मिता आशास्यते।
- वित्तमन्त्री मङ्गलवासरे एन.डी.ए. इति राष्ट्रिय- जनतांत्रिकसंयुतेः सर्वकारस्य तृतीयकार्यकालस्य प्रथमं साधारणं वित-सङ्कल्पना-पत्रकं सम्प्रस्तोष्यति।
- प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् वित-सङ्कल्पनापत्रकं विकसितभारताय’ सुदृढम् आधारं स्थापयिष्यति।
- केन्द्रीय-शिक्षामन्त्री धर्मेन्द्रप्रधानः अकथयत् यत् नीट-यूजी प्रश्नपत्रोद्घाटनस्य प्रकरणे नामनिगूहनस्य कश्चित् प्रसङ्गः नास्ति।
हिमाचलवार्ता:
- साइबर-प्रकोष्ठ: ईमेलद्वारा हिमाचलप्रदेश उच्चन्यायालये प्रेषितस्य विस्फोटकपदार्थै: विस्फोटयितुं संतर्जनप्रकरणस्य अन्वेषणं करिष्यति। जिलापुलिसेन अन्वेषणं साइबर-प्रकोष्ठाय समर्पितम् अस्ति। यतः अस्मिन् प्रकरणे बहवः तान्त्रिकपक्षाः सन्ति, अतः साइबरविशेषज्ञैः अन्वेषणं करणीयम् इति सहमतिः कृता अस्ति।
- उपनिर्वाचनं जित्वा नवनिर्वाचिताः त्रयः विधायकाः सोमवासरे शपथवचनं गृहीतवन्तः। तेषु देहरातः कमलेशठाकुर, हमीरपुरतः आशीषशर्मा, नालागढतः बावा हरदीपः च सन्ति। शपथग्रहणसमारोहे मुख्यमंत्री सुखविंदरसिंहसुक्खु:, प्रतिपक्षनेता जयरामठाकुर:, मन्त्रिण: विधायका: अन्ये मान्योमान्या: च उपस्थिता: अभवन्। विधानसभाया: अध्यक्षः कुलदीपसिंहपठानिया सदनस्य सभागारे त्रयाणां विधायकानां शपथग्रहणं कारितवान्।
- विधानसभायां विधायकानाम् शपथग्रहणानन्तरं मीडियाप्रतिनिधिभिः सह भाषमाणः जयरामठाकुरः अवदत् यत् सर्वकारं सम्यक् मार्गे स्थापयितुं विपक्षस्य कार्यम् अस्ति। तस्य प्रत्येकं जनविरोधी- कार्यस्य अधिनायकत्वस्य निर्णयस्य च दृढतया विरोधं भवेत्। यदि सर्वकारः उत्तमं कार्यं करोति तर्हि भारतीयजनतापक्षः सर्वकारेण सह अस्ति, परन्तु यदि स्वेच्छाचारी अस्ति तर्हि सर्वकारस्य विरुद्धं अपि स्वरं उत्थापयिष्यति।
- जयरामठाकुरः अवदत् यत् मुख्यमन्त्री इतस्तत्: वार्तालापस्य स्थाने सार्धैकवर्षे सर्वकारेण प्रायः २५ सहस्रकोटिरूप्यकाणां ऋणं किमर्थं गृहीतम् ? एतेन धनेन सर्वकारेण किं कृतम् ? कुत्र व्ययितम् ? अस्माकं सर्वकारकाले कोरोना इव विभीषिकाया: भयंकरः कालः अपि आगतः। कस्यचित् कर्मचारिणः अधिकारात् एकं नाणकं अपि न न्यूनीकृतम्। एकम् अपि विकासकार्यं स्थगितुं न अनुमन्यते स्म। अद्य राज्ये विकासकार्यं स्थगितम् अस्ति।
- अधुना देशे सर्वत्र आपणिका: अन्ये च खाद्यव्यापारिणः कतिपयेषु होरासु खाद्यसम्बद्धानि अनुज्ञापत्राणि प्राप्य व्यापारम् आरब्धुं शक्नुवन्ति। एतदर्थं भारतस्य खाद्यसुरक्षामानकप्राधिकरणेन नूतनव्यवस्था कृता। अस्याः प्रणाल्याः अनुसारं आपणिका: अन्ये च तत्क्षणमेव अनुज्ञापत्रं प्राप्तुं शक्नुवन्ति। एतेन व्यवसायस्य आरम्भः बहु सुकरः भविष्यति। पूर्वम् एतादृशी व्यवस्था नासीत्।