HRTC : हिमाचलपथपरिवहननिगमस्य चलति बसयाने पाषाण: पतितः
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
चण्डीगढ- मनाली राष्ट्रियराजमार्गे हिमाचल- पथ- परिवहन- निगमस्य चलति बसयाने एकस्मात् पर्वतात् महती शिला पतिता। बसयाने गच्छन्तौ यात्रिकौ दुर्घटनायां घातितौ, बसयानं तु क्षतिग्रस्तम्। शनिवासरे रात्रौ सार्धद्वादशवादनस्य समीपे नवमीलस्य समीपे इयं दुर्घटना अभवत्। अस्यां दुर्घटनायां प्राणहानिः नासीत् इति सौभाग्यम्। सूचनानुसारं दुर्घटनासमये हिमाचलपथपरिवहननिगमस्य बसयानं मनालीतः शिमलानगरं गच्छति स्म। इदानीं प्रचण्डवृष्ट्या ९ मीललस्य समीपे पर्वतात् एका महती शिला आवर्त्य बसस्य अग्रभागम् आहतवती। अस्यां दुर्घटनायां बसयानस्य अग्रिमासनयो: उपविष्टौ यात्रिकौ आहतौ अभवताम्। प्राथमिकचिकित्सायाः अनन्तरं अन्यया बसयानेन आहताः शिमलानगरं प्रेषिताः सन्ति। अवधेयं वर्तते यत् प्रावृट्काले राज्यस्य अनेकस्थानेषु पर्वतात् शिलापातस्य घटनाः प्रकाशं प्राप्नुवन्ति एव। अधुनैव चम्बामण्डले चलति कारयानस्य उपरि शिलापातस्य घटना ज्ञाता। अस्यां दुर्घटनायां याने गच्छन्तौ युवकौ मृतौ, चत्वारः जनाः गम्भीररूपेण घातिताः।