HPCM : धनेन सर्वकारस्य पातनस्य षड्यंत्रं विफलम्, जनसामान्येन भाजपायै समुचितं उत्तरं दत्तम्।
हिमसंस्कृतवार्ता: – बिलासपुरम्।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बिलासपुरस्य औहरे उक्तवान् यत् भाजपायाः धनद्वारा सर्वकारस्य पातनार्थं कृताः प्रयासाः असफलाः अभवन्। भाजपायाः षड्यंत्रं सफलं न जातम्। सः अवदत् यत् भाजपा केवलं जनभ्रामणस्य कार्यम् अकरोत्। अधुना उपनिर्वाचनानन्तरं आचारसंहिता हृतमात्रेण राज्ये विकासकार्येषु कार्यं क्रियते, येन राज्यस्य जनाः लाभं प्राप्नुयुः। सः अवदत् यत् भाजपायाः मुखं जनसामान्यं प्रति उद्घाटितम् अस्ति। सः अवदत् यत् १४ मासाः पूर्वं ये जनाः विधायकाः आसन् ते अधुना जनसामान्येन उपावेशिता:। जनसामान्येन भाजपायाः कृते समुचितम् उत्तरं दत्तम्। अपि च भाजपानेतारः इदानीं केवलं वक्तव्यं दास्यन्ति। इतः पूर्वं मुख्यमन्त्रिणः आगमनसमये काङ्ग्रेसकार्यकर्तृभिः स्वागतं कृतम्।
मुख्यमंत्री बिलासपुरस्य औहरे नूतनस्य पर्यटनसङ्कुलस्य आधारशिला अस्थापयत्।
हिमसंस्कृतवार्ता: – बिलासपुरम्।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: बिलासपुरस्य औहरे नूतनस्य पर्यटनसङ्कुलस्य शिलान्यासः अकरोत्। ३३.७५ कोटिरूप्यकाणां व्ययेन निर्माणाधीने आधुनिकसुविधाभिः सुसज्जिते अस्मिन् परिसरे होटलखण्डः, खाद्य- परिसर:, मनोरञ्जनक्षेत्रं च समाविष्टं भविष्यति।
आधुनिकसुविधाभिः परिपूर्णं एतत् नूतनं परिसरं पर्यटकानां आकर्षणकेन्द्रं भविष्यति इति सः अवदत्। गोबिन्दसागरसरोवरे पर्यटनसङ्कुलं जलक्रीडाक्रियाकलापैः सह सम्बद्धं कर्तुं निर्देशाः दत्ताः येन आगन्तुकानां सम्यक् मनोरञ्जनं कर्तुं शक्यते, अस्मिन् क्षेत्रे पर्यटकानाम् आवागमनं च वर्धयितुं शक्यते। अस्मिन् काले सः जनानां समस्याः अपि श्रुतवान्।
लम्बरदारजलकल्याणसङ्घः मुख्यमन्त्री राहतकोषाय ३१ सहस्ररूप्यकाणां राशि: अददत्
अस्मिन्नवसरे लम्बरदारजलकल्याणसङ्घः मुख्यमन्त्री राहतकोषाय ३१ सहस्ररूप्यकाणां राशि: ड्राफ्टमाध्यमेन मुख्यमन्त्रीं प्रदत्तवान्। अस्य योगदानस्य कृते सः संघस्य प्रति आभारं प्रकटितवान्।