- गौरवगोगोई लोकसभायां काङ्ग्रेसस्य उपनेता, के. सुरेश: च मुख्यसचेतक: नियुक्तः; सोनिया गान्धी सभापतिं नूतननियुक्तिविषये सूचितवती।
लोकसभायां काङ्ग्रेसेन नूतनदलस्य घोषणा कृता अस्ति। अधुना गौरवगोगोई लोकसभायां काङ्ग्रेसस्य उपनेता अस्ति। राहुलगान्धी लोकसभायां काङ्ग्रेसपक्षस्य नेता अस्ति। विदितं स्यात् यत् गौरवगोगोई गतलोकसभायामपि काङ्ग्रेसपक्षस्य उपनेता आसीत्। एतदतिरिक्तं के. सुरेशं मुख्यसचेतक:, मणिकम-टैगोरं, मोहम्मदजावेदं च सचेतकौ नियुक्तौ। काङ्ग्रेससंसदीयपक्षस्य प्रमुखा सोनिया गान्धी लोकसभा-सभापतिं नूतननियुक्तिविषये सूचितवती।
असमस्य पूर्वमुख्यमन्त्री तरुणगोगोई इत्यस्य पुत्रः गौरव गोगोई
गौरवगोगोई असमस्य पूर्वमुख्यमन्त्री तरुणगोगोई इत्यस्य पुत्रः अस्ति। सः पूर्वं २०२० तः लोकसभायां भारतीयराष्ट्रियकाङ्ग्रेसस्य उपनेतृपदं स्वीकृतवान् आसीत्। अस्मिन् समये काङ्ग्रेसस्य गौरवगोगोई जोरहाट इति लोकसभा-क्षेत्रतः भाजपापक्षस्य तपनकुमारगोगोई इत्येतं १४४३९३ मतैः पराजित्य विजयं प्राप्तवान् आसीत्।
यत्र यदि के सुरेशस्य विषये वदामः तर्हि १८ तमे लोकसभायां सः अध्यक्षपदस्य प्रत्याशी कृतः आसीत्। सः केरलस्य मनेलिकारातः काङ्ग्रेसलोकसभासांसदः अस्ति। सः अष्टमवारं विजयं प्राप्य सदनं आगतः अस्ति। सम्प्रति सः सर्वाधिकदीर्घकालं यावत् लोकसभासांसदः अस्ति।
मणिकम-टैगोरस्य मोहम्मद-जावेदस्य च परिचय:
मणिकम-टैगोरः विरुधुनगरक्षेत्रतः काङ्ग्रेसपक्षस्य सांसदः अस्ति। सः प्रथमवारं २००९ तमे वर्षे १५ तम- लोकसभायां निर्वाचितः, तदनन्तरं २०१९ तमस्य वर्षस्य लोकसभानिर्वाचने अपि सः विजयं प्राप्तवान् आसीत्। अस्मिन् समये मोहम्मदजावेदः बिहारस्य किशनगञ्जलोकसभाक्षेत्रात् लोकसभानिर्वाचने विजयं प्राप्तवान् आसीत्। सः जदयू-पक्षस्य मुजाहिद- आलम्- इत्यस्य पराजयं कृतवान्। २०१९ तमस्य वर्षस्य लोकसभानिर्वाचने अपि सः किशनगञ्जात् विजयं प्राप्तवान्। डॉ. जावेदस्य पिता, व्यवसायेन वैद्यः आसीत्, सः किशनगञ्जस्य विधायकः अपि आसीत्।