Himsanskritnews Headlines : प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- सप्तदश राज्यानां त्रयोदशविधानसभासनेषु कांग्रेस-तृणमूल कांग्रेस दलाभ्यां चत्वारि आसनानि भाजपा दलेन द्वे आसने आम आदमी, डीएमके प्रत्येकं दलाभ्यां च एकम् आसनं विजितम्।
- केन्द्रीय-गृहमन्त्रिणा अमितशाहेन उक्तं यत् प्रशासनं देशस्य सीमवर्ति-ग्रामाणां सर्वांगीण विकासाय प्रतिबद्धम् अस्ति।
- अस्मिन् वित्तवर्षे आयकर-संग्रहणे नवदश प्रतिशतमिता वृद्धिः संजाता। आयकर विभागेन वर्तमान-वित्त- वर्षाय प्रत्यक्ष-कर-रूपेण पञ्च चत्वारिंशसत्-सहस्राधिक-पड्-लक्ष-कोटि-रूप्यकाणि एकत्रितानि।
- मुख्यन्यायाधीशः डी०वाई० चन्द्रचूड़ अवोचत् यत् विधेः अध्ययनं क्षेत्रीय भाषासु भवेत् इति।
- लंदन नगरे विंबलडन टेनिस प्रतियोगितायाः महिला-एकल-अन्तिम चक्रे अद्य सायंकाले जैस्मीन- पाओलिनी-इत्यस्य स्पर्धा बारबोरा क्रेजिकोवया सह भविष्यति।
हिमाचलवार्ता:
- शनिवासरे हिमाचलप्रदेशे त्रिषु विधानसभासनेषु आयोजितानाम् उपनिर्वाचनानां परिणामाः घोषिताः। देहरा-नालागढ-विधानसभासने काङ्ग्रेसस्य पक्षे आगते। हमीरपुर-आसनं भाजपापक्षस्य आशीषशर्मा जितवान्। अस्मिन् उपनिर्वाचने १३ अभ्यर्थिनः प्रतिस्पर्धां कृतवन्तः।
- हिमाचलप्रदेशस्य राजभवने शिमलायां शनिवासरे श्रीहनुमत: प्रतिमाया: समक्षं भगवत: श्रीरामस्य प्रतिमा स्थापिता। पण्डितानां सान्निध्ये विधिभिः मूर्ति-प्रतिष्ठा अभवत्। अयं धार्मिकानुष्ठानकार्यक्रमः प्रातः अष्टवादने आरब्धः। पूजाकार्यम् आचार्य: अनिलशास्त्री, जाखुमंदिरस्य अर्चक: बी. पी. शर्मा, पंडित हरिनंदशर्मा, सौम्या शर्मा इत्येतेषां पर्यवेक्षणे सम्पन्नम्। प्राणप्रतिष्ठायाः अनन्तरं हवनयज्ञं तदनन्तरं भोजस्य आयोजनमपि कृतम्।
- काङ्ग्रेसस्य कारकनिर्णयसमितिः रविवासरे सायं शिमलाम् आगमिष्यति। इयं समितिः शिमलायां नेतृभि: मिलित्वा ज्ञास्यति यत् लोकसभानिर्वाचने काङ्ग्रेसपक्षः किमर्थं दुर्गतिम् अवाप्तवान्, यदा तु राज्ये काङ्ग्रेसपक्षः सत्तायां वर्तते तथा च सत्तायां स्थित्वा अपि लोकसभायां पराजितः अभवत्। उपनिर्वाचने काङ्ग्रेसस्य प्रदर्शनं उत्तमं जातम् इति भिन्नः विषयः।
- आगामिसप्ताहपर्यन्तं हिमाचलप्रदेशस्य अनेकेषु भागेषु मानसूनवृष्टिः निरन्तरं भविष्यति। ऋतुविज्ञानकेन्द्रशिमलाद्वारा १९ जुलाईपर्यन्तं राज्यस्य अनेकभागेषु वातावरणं प्रतिकूलमेव भविष्यति इति भविष्यवाणी कृता। केषुचित् भागेषु १६, १७ जुलाईपर्यन्तं प्रचण्डवृष्टेः पीतसचेतना प्रसारिता।