HP High Court : उच्चन्यायालयेन द्वयोः सहाचार्ययोः नियुक्तिः निरस्तीकृता, नूतनविज्ञापनं निर्गन्तुं आदेशः दत्तः
हिमसंस्कृतवार्ता: – शिमला।
उच्चन्यायालयेन हिमाचलप्रदेशविश्वविद्यालये (एचपीयू) गणितविभागे २०२० तमे वर्षे द्वयोः सहाचार्ययो: नियुक्तिः निरस्तीकृता। न्यायालयेन ज्ञातं यत् एचपीयू-अधिनियमस्य १९७०, यूजीसी-नियमानाम् उल्लङ्घनेन नियुक्तयः कृताः । पदं पूरयितुं अधिकाराः कार्यकारीपरिषदः कृते दत्ताः सन्ति। कुलपतये एषः अधिकारः नास्ति । कुलपतिः धारा १२-ग (७) इत्यस्य अन्तर्गतं कामपि नियुक्तिं कर्तुं न शक्नोति। यदि कुलपतिः नियुक्तिसम्बद्धं किमपि निर्णयं करोति तर्हि तस्य कार्यकारीपरिषदः अनुमोदनं प्राप्तव्यम्। यदि न मान्यतां प्राप्नोति तर्हि एतादृशाः नियुक्तयः अवैधरूपेण घोषिताः भविष्यन्ति। न्यायाधीशस्य अजयमोहनगोएलस्य न्यायालयेन याचिकायाः निस्तारणकाले विश्वविद्यालयेन नियमानुसारं द्वयोः पदयोः नवीनतया पूरणार्थं विज्ञापनं निर्गन्तुं आदेशः दत्तः।
याचिकाकर्ता २०२१ तमे वर्षे उच्चन्यायालये शिक्षकचयनप्रक्रियायां अनियमिततायाः आरोपं कृत्वा याचिका प्रवेशितवान् आसीत्। याचिकाकर्तु: अधिवक्ता न्यायालयं न्यवेदयत् यत् एचपीयू ३० दिसम्बर् २०१९ दिनाङ्के त्रीणि पदं पूरयितुं विज्ञापनं प्रसारितवान्, १४ दिसम्बर् दिनाङ्के साक्षात्कारः अपि अभवत्। कुलपतिः १५ दिसम्बर २०२० दिनाङ्के प्रतिवादीनां कृते सहाचार्यपदे (एसोसिएटप्रोफेसरपदे) नियुक्तवान्। याचिकाकर्ता आरटीआई मार्गेण अभिलेखान् याचितवान्, यत्र प्रशासनेन स्वजनं विभागे आनेतुं नियमाः भङ्ग्य अयोग्याः जना: नियुक्ताः इति ज्ञातम्। तेषां नियुक्तिः निरस्तीकर्तुं सः न्यायालये प्रार्थनां कृतवान् आसीत् । विश्वविद्यालयस्य पक्षतः उपस्थितः अधिवक्ता अवदत् यत् प्रशासनेन नियमानुसारं शिक्षकाः नियुक्ताः।