HPCM : ‘सार्धैकवर्षे २८ सहस्राधिका: सर्वकारीया: जीविका: निर्गता: जयरामसर्वकारः पञ्चवर्षेषु केवलं २० सहस्रमेव अददत्’
हिमसंस्कृतवार्ता: – देहरा।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शुक्रवासरे देहरानगरे प्रचारं कुर्वन् अवदत् यत् वर्तमानकाङ्ग्रेससर्वकारेण सार्धैकवर्षस्य कार्यकाले २८,००० तः अधिका: सर्वकारीया: जीविका: निष्कासिता:। तेषां नियुक्तिप्रक्रिया आरब्धा अस्ति। एतेषु शिक्षाविभागे ५२९१ शिक्षकपदानि, जलशक्तिविभागे विभिन्नवर्गेषु दशसहस्राणि पदानि, वनविभागे वनमित्राणां २०६१ पदानि, स्वास्थ्यविभागे विभिन्नवर्गेषु १४५० पदानि, पटवारीणां ८७४ पदानि, पुलिसारक्षकाणां च १२२६ पदानि सन्ति।
यत्र जयरामठाकुरः पञ्चवर्षीयकार्यकाले सर्वकारीयक्षेत्रे केवलं २०,००० जीविकाया: सृजनं कृतवान्, येषु अधिकांशः विधिजटिलतासु निरुद्धा: आसन् । राज्यसर्वकारेण पुलिसनियुक्तौ महिलानां कृते ३० प्रतिशतं आरक्षणं प्रदत्तं, सर्वेभ्यः अभ्यर्थिभ्यः अधिकतमवयसः एकवर्षस्य शिथिलता च दत्ता अस्ति।
सः अवदत् यत् मन्त्रिमण्डलस्य सत्रेण राष्ट्रियशिक्षानीति-२०२० इत्यस्य अन्तर्गतं व्यापकं प्रारम्भिकबाल्यसेवाशिक्षाकार्यक्रमं आरभ्य ६२९७ प्रारम्भिकबालसंरक्षणशिक्षाशिक्षकाणां नियुक्त्यर्थं हरितसंकेतः दत्तः। आगामिसमये सर्वकारीयक्षेत्रे अधिकानि कार्यस्थानानि सृज्यन्ते। भाजपायाः कार्यकालस्य विगतपञ्चवर्षेषु शिक्षाक्षेत्रे महान् क्षयः अभवत् तथा च गुणात्मकशिक्षायाः दृष्ट्या हिमाचलप्रदेशः देशे १८ स्थानं प्राप्तवान्। काङ्ग्रेससर्वकारः राज्ये शिक्षास्तरं वर्धयितुं प्रयतते।
पूर्वविधायकस्य होशियारसिंहस्य उपरि आक्रमणं कुर्वन् मुख्यमन्त्री अवदत् यत् स्वविधायकस्य एवम् एव कोऽपि त्याग-पत्रं न ददाति। अहंकारस्य, धनलोभस्य च कारणात् होशियारसिंहः जनभावनाभिः सह मूल्यं कृत्वा स्वस्य विधायकपदं विक्रीतवान् इति सः अवदत्। होशियारसिंहस्य बुद्धिः धनस्य प्रभावेण भ्रष्टा अभवत् । सः अवदत् यत् स्वतन्त्रः विधायकः स्वपदात् त्यागपत्रं दत्तवान् इति साधु अस्ति, अधुना पूर्वमेव आरब्धस्य देहराक्षेत्रे बहु विकासः भविष्यति।