Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्रिणा नरेन्द्रमोदिना राज्यसभायां राष्ट्रपतेः अभिभाषणमालक्ष्य धन्यवादप्रस्तावस्य उत्तरं प्रदत्तम्। सः अवदत् यत् संविधानम् सर्वकाराय निर्देशं दातुं दीपस्तम्भमिव अस्ति।
- उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे हायरससर्वकारीचिकित्सालये दुरापन्नायां दुर्घटनायां पीडितैः सह मेलनं कृतवान्।
- विदेशमन्त्री डा. एस्. जयशङ्करः कजाख्स्तान्-देशस्य अस्ताना-नगरे स्वीयसमकक्षेण रूसदेशस्य विदेशमन्त्रिणा सर्गेय् लावरोव इत्यनेन सह वर्तमानकाले युद्धक्षेत्रीय-स्थितानां सहैव भारतीयनागरिकाणां विषये महतीं चिन्तां प्रकटितवान्।
- केन्द्रीयमन्त्री अश्विनीवैष्णवः अद्य वैश्विक-भारत-एआई-शिखर सम्मेलनस्य उद्घाटनं अकरोत् सहैव समुद्धोषयत् यत् अनतिचिरमेव सर्वकारेण एआई अभियानं विमोचयिष्यते।
हिमाचलवार्ता:
- हिमाचलमार्गपरिवहननिगमः हिमाचलप्रदेशस्य हानिप्रदायकेषु संकीर्णमार्गेषु च टेम्पो ट्रैवलरयानं प्रचालयिष्यति। परिवहननिगमः टेम्पो ट्रैवलरयानानां क्रयणप्रक्रियायां प्रवृत्तः अस्ति। एतानि यानानि जनजातीयक्षेत्रेषु ग्रामीणक्षेत्रेषु च प्रचलिष्यन्ति।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् प्रेमकुमारधूमलस्य पराजयेन हमीरपुरमण्डलस्य महती हानिः अभवत्। विगतेषु ५ वर्षेषु मण्डले विकासकार्यं न कृतम्। जयरामः धूमलस्य दुर्बलीकरणाय हमीरपुरे विकासं स्थगितवान्। हमीरपुरतः कोऽपि मन्त्री न निर्मितः। धूमलः २०१७ तमे वर्षे घोषितः मुख्यमन्त्री आसीत्, सः एकस्य षड्यंत्रस्य कारणेन पराजितः अभवत्।
- हिमाचलप्रदेशस्य जनाः हिमाचलभवनं गुजरातहरिद्वारयोः स्थातुम् अपि प्राप्स्यन्ति। तत्र गच्छतां जनानां कृते निवाससुविधाः प्रदातुं सर्वकारः विचारयति, यस्य कृते सामान्यप्रशासनविभागेन भूमे: अन्वेषणं आरब्धम् अस्ति। सामान्यप्रशासनविभागेन तत्रत्यानां सर्वकारैः सह विषयः गृहीतः अस्ति, शीघ्रमेव तस्य समाधानस्य अपेक्षा अस्ति।
- हिमाचल-सचिवालये एव अधिकारिणः कर्मचारिण: च स्वभूमिसम्बद्धानि प्रपत्राणि, आधारपत्रं, पारपत्रं (पासपोर्ट), अन्ये च २०० तः अधिकानि प्रपत्राणि सज्जीकर्तुं शक्नुवन्ति। एष: उपक्रमः राज्यसचिवालयस्य कर्मचारीसहकारीऋणबचतगैरकृषकसमित्या कृत; अस्ति। एलर्जली भवनकक्षे क्रमाङ्के बी-७ इत्यत्र एतां सुविधां कर्मचारिणः प्राप्स्यन्ति।