Himachal Weather: हिमाचलस्य अनेकभागेषु एकसप्ताहपर्यन्तं प्रचण्डवृष्टेः सजगता, शिमलानगरे भूस्खलनेन गृहाय संकट:
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य अनेकेषु भागेषु एकसप्ताहं यावत् प्रचण्डवृष्टिः भविष्यति इति सचेतना निर्गता अस्ति। आगामिदिनद्वये राज्यस्य अवशिष्टेषु भागेषु दक्षिणपश्चिम-मानसूनाय अग्रे गन्तुं परिस्थितयः अनुकूलाः सन्ति। ऋतुविज्ञानकेन्द्रशिमलाया: अनुसारं राज्ये ५ जुलाईपर्यन्तं वर्षा भविष्यति। अस्मिन् काले अनेकेषु भागेषु पीत-नारङ्गवर्णीया: प्रचण्डवृष्टेः सचेतना भवति। ३० जून, जुलाई १, २ च दिनेषु प्रचण्डवृष्टेः नारङ्गवर्णीयसचेतना प्रसारिता अस्ति। शेषदिनानां कृते पीतसचेतना अस्ति। शनिवासरे मण्डी-शिमला-क्षेत्रयोः वर्षा अभवत्। राज्यस्य अन्येषु क्षेत्रेषु लघुमेघैः सह सूर्य्यः आसीत्। अधिकतमं तापमानं सामान्यतः द्वौ अंशौ वृद्धिः अभवत्। शनिवासरे प्रातः राजधानी शिमलानगरे लघुमेघाच्छादनं जातम्। अपराह्णे नगरे वर्षा अभवत्। तस्मिन् एव काले शिमलानगरस्य चलौंठीस्थाने भूस्खलनेन भवनस्य कृते संकट: उत्पन्नः अस्ति। भवने स्फोटनं (दरार) प्रादुर्भूतम् अस्ति। नगरनिगमेन भवनं रिक्तं कारितम् अस्ति। तत्रैव चतुष्पंक्तिराजर्मार्गस्य कन्दराया: कार्यमपि प्रचलति इति कथ्यते। भवने भवनस्वामिना सहितं ७ भाटकस्वीकृत्य जना: निवसन्ति स्म। स्थले एव पुलिसं नियोजितम् अस्ति।
एतेषु जनपदेषु प्रचण्डवृष्टेः सम्भावना
ऋतुविज्ञानविभागस्य अनुसारं ऊना, बिलासपुरं, हमीरपुरं, कांगड़ायां, मण्डी, शिमला, सोलनं, सिरमौर: इत्यत्र च अत्यधिकवृष्टेः सम्भावना वर्तते। एकस्मिन् वा द्वयोः वा स्थानयोः अतीव प्रचण्डवृष्टिः सम्भवति। वर्षाकाले जनाः नद्यः, उपनद्यः च दूरं तिष्ठन्तु इति उपदेशः दत्तः अस्ति।