Mandi Film Festival : भारतीयसूचनाप्रौद्योगिकीसंस्थाने (IIT Mandi) प्रदर्शितं ब्रीणाप्रथायाम् आधारितं चलचित्रम्
हिमसंस्कृतवार्ता:- लघ्वीकाशी मण्डी।
लघ्वीकाश्यां मण्ड्यां ४ दिवसीयस्य हिमाचल- अन्ताराष्ट्रीय- चलचित्रमहोत्सवस्य द्वितीयदिने भारतीयसूचनाप्रौद्योगिकीसंस्थाने (IIT- मण्डीनगरे ब्रीणाप्रथाविषये निर्मितं चलचित्रं प्रदर्शितम्। रियासतकाले मण्डीमण्डलस्य सरकाघाटस्य पिंगलाग्रामे सामाजिकदुष्टतायाः एषा प्रथा प्रचलिता आसीत्। परम्परानुसारं यदि ऋणं न परिशोधितं स्यात् तर्हि ऋणदातारः ऋणग्राहकस्य कन्यायाः मूल्यं कुर्वन्ति स्म। लाहुला नाम युवती स्वप्राणान् त्यागं कृतवती, तदनन्तरं कालान्तरेण एषा परम्परा स्थगिता। अस्याः सत्या घटनायाः आधारेण एतद् चलचित्रं निर्मितम् अस्ति। मण्डीमण्डलस्य निवासी पवनकुमारशर्मा इत्यनेन अस्य चलचित्रस्य निर्देशनं कृतम् अस्ति। ब्रीणा अस्मिन् चलचित्रे स्थानीयाः अभिनेतारः सन्ति येषु अनेके बॉलीवुड- अभिनेतारः अपि सन्ति। अस्मिन् चलचित्रे अभिनयं कृतवान् अभिनेता राजेशजैशः अवदत् यत् जनाः प्रतिदिनं मनोरञ्जनादिचलचित्रं पश्यन्ति। परन्तु जनाः सामाजिकसम्बद्धविषयेषु अपि ध्यानं दद्युः, एतादृशानि चलचित्राणि चापि जनानां समक्षं प्रदर्शिताः भवेयुः। कलाकारत्वेन एतादृशानि चलचित्राणि निर्मातुं समाजस्य प्रति अस्माकं दायित्वम् अस्ति। अस्य चलचित्रमहोत्सवस्य आयोजनं कुर्वन्तः कला- इन्टरटेन्मेण्ट इत्यस्य संस्थापकः राजासिंहमल्होत्रा इत्यनेन उक्तं यत् चलचित्रमहोत्सवे विविधसामाजिकविषयेषु निर्मितानि चलचित्राणि सामान्यजनेभ्यः प्रदर्शयितुं प्रयत्नाः क्रियन्ते। ब्रीणा-चलचित्रम् अपि अस्य महत्त्वपूर्णः भागः अस्ति। यत् अद्य IIT इत्यस्य छात्राणां संकायस्य च कृते दर्शितम्। एतादृशानि चलचित्राणि यथासंभवं अधिकाधिकजनानां कृते उपलभ्यन्ते इति अस्माकं प्रयासः अस्ति। एतत् चलचित्रं दृष्ट्वा IIT Mandi इत्यस्य छात्राः अवदन् यत् अद्यत्वे अपि आधुनिकरूपेण देशस्य अनेकेषु राज्येषु महिलानाम् उपरि एताः प्रथाः आरोपिताः सन्ति। परन्तु समाजे जागरूकतायाः सन्देशं दातुं एतादृशानि चलचित्राणि महत्त्वपूर्णां भूमिकां निर्वहन्ति।