जे पी देशस्य नवनिर्माणस्य महान योद्धा अस्ति, यस्य संघर्षस्य कारणतः देशे लोकतंत्रं जीवति- श्रीशिवप्रतापशुक्लः
हिमसंस्कृतवार्ताः नवदेहली, राघवनाथझा। जे पी आंदोलनस्य ५० वर्षाणि पूर्णानि सन्ति इत्यस्योपक्ष्ये नवदेहल्यां स्थिते इंडिया-इंटरनेशनल-केन्द्रमध्ये सम्पूर्णक्रांति आंदोलनमहोत्सवः आयोजितः। समारोहस्य उद्घाटनं हिमाचलप्रदेशस्य माननीयः राज्यपालः श्री शिवप्रतापः शुक्लः कृतवान्। स्वस्यउद्घाटनभाषणे श्रीशुक्लः उक्तवान् यत् जे पीं देशस्य नवनिर्माणस्य महान योद्धा अस्ति, यस्य संघर्षस्य कारणतः देशे लोकतंत्रं जीवति। वयं मुक्तवायुना श्वासं कुर्मः। एतत् सर्वं सप्ततिदशकस्य नवनिर्माणांदोलने तस्य भूमिकां विना सम्भवः नास्ति।
देशस्य स्वातन्त्र्यं , तदनन्तरं च तस्य स्थायित्वनिमित्तं तस्य संघर्षः देशस्य इतिहासे स्वर्णाक्षरैः लिखितः भविष्यति। लोकनायकः जयप्रकाशः अंतरराष्ट्रीय-अध्ययन-विकास-केन्द्रेण आयोज्यमानाः कार्यक्रमाः प्रशंसनीयाः सन्ति, यत् तेन तस्य स्मृतिं संजोयितुं प्रयासः अस्ति। अस्मिन कार्ये संस्थायाः महासचिवः श्री अभयसिन्हाय अभिनन्दनं मया दीयते। समारोहे सम्पूर्णक्रान्त्याभियानस्य महत्त्वपूर्णभूमिकां निर्वहन्तः प्रमुखांदोलनकर्मिणः श्री रघुपतिः, श्री कुमारअनुपमः, पूर्वमंत्री बिहारः श्रीश्यामः रजकः, प्रसिद्धः समाजवादी श्री श्यामगंभीरः, वरिष्ठः गांधीवादी महात्मागांधी स्मारकट्रस्टबाराबंकी अध्यक्षः श्री राजनाथः शर्मा च वरिष्ठः पत्रकारः लेखकः पर्यावरणविदः राष्ट्रीय पर्यावरण-सुरक्षा-समितेः अध्यक्षः श्री ज्ञानेन्द्रः रावतः उपस्थिता आसन्।
सम्मानसमारोहे माननीयः राज्यपालः श्री शिवप्रतापशुक्लः किञ्च केन्द्रीयतिब्बती प्रशासनस्य पूर्वप्रधानमंत्री प्रोफेसरः समदोंगः रिनपोछे, प्रख्यातः विचारकः श्री रघुठाकुरः, प्रख्यातः गायकः भजनसम्राटः पद्मश्री अनूपजलोटः, पद्मश्री विमलकुमारः जैनः, प्रख्यातः पत्रकारः श्री के विक्रमः रावः एवम् श्री राहुलः देवः, अखिलभारतीयसंतसमाजस्य अध्यक्षः स्वामी चक्रपाणिः महाराजः, पूर्व सांसदः राजा मानवेन्द्रः सिंहः, पूर्व डीजीपी श्री आमोदः कंठः, कुलपतिः सिद्धू कान्हू विश्वविद्यालयः दुमका इत्यस्य प्रो० बिमलः प्रसादः सिंहः, मेजर जनरलः श्री अनुजः माथुरः, रेजिडेंट कमिश्नरः जे एण्ड के आई ए एस श्री रश्मिः सिंहः, निदेशकः सेंट्रल काटेज इंडस्ट्री-कारपोरेशन श्रीमनोजलालः नरकटियागंज, बिहारस्य विधायकः श्री रश्मिः वर्मा सहितं देशस्य प्रबुद्धाः विद्वान्सः, विचारकाः, समाजवादिनः चिंतकाः, समाजसेविनः गरिमामयीं उपस्थितिं पञ्जीकृतवन्तः। मंचस्य संचालनं अंतर्राष्ट्री व्यापारः स्टार्टअप उद्यमी संघस्य अध्यक्षः अंशुमानसिंहः कृतवान्।
जे पी देशस्य नवनिर्माणस्य महान योद्धा अस्ति, यस्य संघर्षस्य कारणतः देशे लोकतंत्रं जीवति- श्रीशिवप्रतापशुक्लः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment