Kalka-Shimla-Railway Track : त्रिदिनानन्तरं शिमलानगरं प्राप्तानि रेलयानानि, पर्यटकाः आश्रयं प्राप्तवन्तः
हिमसंस्कृतवार्ता: – शिमला।
कालका-शिमला-रेलमार्गे त्रिदिवसानन्तरं सर्वाणि रेलयानानि मंगलवासरे शिमलानगरं प्राप्तानि। एतेन भारतात् विदेशात् च शिमलाभ्रमणाय आगच्छन्तः पर्यटकाः महदाश्रयं प्राप्तवन्तः। सोमवासरे सप्त अपि रेलयानानि समये एव शिमलानगरं प्राप्तानि। अस्य कारणात् शिमला-रेलस्थानके अपि बहु क्रियाकलापः दृष्टः। ग्रीष्मकालस्य कारणात् मंगलवासरे रेलयानेन बहुसंख्यकाः पर्यटकाः शिमलानगरं प्राप्तवन्तः।
समरहिल इत्यत्र ८०० क्रमाङ्कस्य सेतो: पुनर्स्थापनकारणात् शिमला-कालका-रेलमार्गे तारादेवी, कण्डाघाट, बड़ोग च यावत् रेलयानानि गच्छन्ति स्म। अतः पर्यटकाः बहु समस्यानां सम्मुखीकरणं कुर्वन्ति स्म। रेलयानेन अर्धमार्गं गन्तुं प्रवृत्ताः अपि पर्यटकाः टैक्सी-बसयानैः गन्तुं बाध्यन्ते स्म। एतेन तेषां समयः धनं च अपव्ययः भवति स्म।
एतत् दृष्ट्वा बहवः पर्यटकाः रेलयानस्य आरक्षणमपि निरस्तं कृतवन्तः आसन्। सोमवासरे रेलविभागेन सेतो: पुनर्स्थापनं सम्पन्नं कृत्वा परीक्षणं कृतम्। सेतुः सर्वथा सुरक्षितः इति पुष्टिं कृत्वा हिमालयन-राज्ञी शिमला-रेलस्थानकं प्राप्तवती।
वर्षाम् दृष्ट्वा पटलम् सुरक्षितम्
गतवर्षे प्रचण्डवृष्ट्या शिमला-कालका-रेलमार्गस्य ८०० क्रमाङ्कस्य सेतुः प्रक्षालितः अभवत्। अतः पटलं वायुतले लम्बमानम् आसीत् । महती क्षतिकारणात् रेलमार्गे रेलयानानां गतिः कतिपयानि दिनानि यावत् निरुद्धा एव आसीत्। एतत् दृष्ट्वा रेलविभागेन अस्थायीरूपेण रेलयानानां कृते पटलस्य पुनर्स्थापनं कृतम् आसीत्। अधुना पुनः वर्षाकारणात् संकटं दृष्ट्वा विभागेन प्राविधिकविशेषज्ञानाम् अवलोकनेन ८०० नम्बरसेतौ वज्रचूर्णस्तम्भाः स्थापयित्वा सेतुः सुरक्षितः कृतः।