जगतप्रकाशनड्डा संसदस्य उच्चसदनस्य राज्यसभायाः नेता चयनितः
नवदिल्ली। भारतीयजनतापक्षस्य अध्यक्षः केन्द्रीयमन्त्री च जगतप्रकाशनड्डा संसदस्य उच्चसदनस्य राज्यसभायाः नेता चयनितः। आधिकारिकसूत्रानुसारं पीयूषगोयलस्य स्थाने जेपी नड्डा इत्यस्मै एतत् दायित्वं दत्तम्, यतः सद्यःकाले निर्वाचनं जित्वा पीयूषगोयलः लोकसभासदस्यत्वेन निर्वाचितः अस्ति। जेपी नड्डा गतफेब्रुवरीमासे पुनः राज्यसभायाः सदस्यत्वेन निर्वाचितः। काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे राज्यसभायां विपक्षनेतृत्वस्य उत्तरदायित्वं पूर्वमेव धारयति । भाजपा-काङ्ग्रेसयोः अध्यक्षाः राज्यसभायाः सदस्याः सन्ति किञ्च उभौ सदनस्य महत्त्वपूर्णदायित्वम् अपि निर्वहन्ति इति संयोगः एव ।
जगतप्रकाशनड्डा संसदस्य उच्चसदनस्य राज्यसभायाः नेता चयनितः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment