Himachal Weather : गम्बरसेतौ मेघः विस्फोटः, लाहौलस्य मडग्रां नालिकायां जलप्रलयः
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशे शीघ्रमेव मानसूनः आगन्तुं शक्नोति। राज्यस्य अनेकेषु भागेषु मानसूनपूर्ववृष्टिः निरन्तरं भवति। अपरपक्षे सोमवासरे प्रातःकाले वर्षाणा अनन्तरं आदिवासीमण्डलस्य लाहौल-स्पीति इत्यस्य मडग्रां-नालिकायां आकस्मिकं जलप्लावनम् अभवत् । अनेन क्षेत्रे क्षोभ: उत्पन्नः । जलप्रलयेन तिन्दी-क्षेत्रसम्बद्धः मार्गः अवरुद्धः आसीत् । सूचनां प्राप्य बीआरओ इत्यनेन मार्गं उद्घाटयितुं स्वयन्त्राणि प्रेषितानि। जलप्लावनस्य कारणेन मार्गस्य उभयतः बहूनि वाहनानि अपि निरुद्धानि स्म । जलप्रलयेन प्राणहानिः सम्पत्तिः वा न अभवत् । तस्मिन् एव काले कुनिहार-नालागढ-मार्गे स्थिते गम्बरसेतौ मेघविस्फोटकारणात् एकः भोजनालय: पतितः। एतेन केचन वाहनानि अपि प्रभावितानि अभवन् । सौभाग्यम् आसीत् यत् मेघस्य स्फुरणसमये भोजनालये कोऽपि नासीत्, अन्यथा क्षतिः अधिका भवितुम् अर्हति स्म । गम्बरसेतु: सम्पूर्णतया मृत्तिकाभिः पूरितः अस्ति । सूचनां प्राप्य एसडीएम अर्की अपि तत्स्थानं प्राप्तवान्। मार्गे बृहत् शिलाः आगताः, तान् दूरीकर्तुं कार्यं प्रचलति।
अनेकभागेषु प्रचण्डवृष्टेः सचेतना
सोमवासरे अपराह्णे प्रायः सोलन्-नगरे प्रचण्डवृष्टिः अभवत् । अनेन जनानां कृते उष्णतायाः निवृत्तिः प्राप्ता अस्ति । शिमलानगरे अपराह्णे २:०० वादनस्य समीपे वर्षा आरब्धा। अस्य कारणात् वातावरणं शीतलम् अभवत् । नाहननगरे अपि वर्षा अभवत् । ऋतुविज्ञानकेन्द्रं शिमलाद्वारा राज्यस्य अनेकेषु भागेषु वज्रपातस्य, वर्षायाः च पूर्वानुमानं कृतम् अस्ति। राज्यस्य अनेकेषु भागेषु जूनमासस्य ३० दिनाङ्कपर्यन्तं वातावरणं प्रतिकूलमेव भवितुं शक्यते। जूनमासस्य २८ तः ३० पर्यन्तं अधिकांशेषु भागेषु वर्षा भविष्यति । अस्मिन् काले वज्रपातस्य सचेतना अपि भवति । जूनमासस्य २८ दिनाङ्के केषुचित् स्थानेषु प्रचण्डवृष्टेः पीतवर्णीयसचेतना अस्ति।