Central Sanskrit University IYD 2024 : विकसितभारतस्य संकल्पना योगद्वारा एव पूर्णा भविष्यति – कुलपति प्रो. श्रीनिवासवारखेड़ी
हिमसंस्कृतवार्ता: – काङ्गड़ा।
अन्ताराष्ट्रीययोगदिवसस्य शुभावसरे केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली इत्यस्य हिमाचलप्रदेशे स्थिते वेदव्यासपरिसरे विविधानां यौगिकक्रियाकलापानाम् आयोजनम् अभवत्। प्रातः ०६.१५ वादनात् आरभ्य रात्रिं यावत् परिसरस्य वातावरणं योगमयम् अभवत्। उद्घाटनकार्यक्रमे राष्ट्रीयस्वंयसेवकसंघस्य अखिलभारतीयप्रचारटोली प्रमुखः मुकुलकानिटकरः मुख्यातिथित्वेन प्रतिभागितां कुर्वन् स्वकीये सम्बोधने उक्तवान यत् भारते सूर्यनमस्कारस्य १८ प्रकाराः प्रचलने सन्ति। तेनोक्तं यत् योगः शारीरिकक्रिया न अपितु मानसिकक्रिया अस्ति। मानसिकचिन्तने परिष्कारः, पवित्रता च योगस्य प्रयासः भवितुमर्हति। तेनोक्तं यत् अन्ताराष्ट्रीययोगस्य परिकल्पना भारतं विश्वगुरुत्वेन स्थापयन्नस्ति। अस्मिन् क्रमे केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवारखेड़ीवर्यः स्वसम्बोधने उक्तवान् यत् अस्माभिः सङ्कल्पः करणीयः यत् २०४७ पर्यन्तं विश्वस्य सर्वेषु देशेषु सर्वेषु मानवेषु च योगस्य माहात्म्यं गच्छेत्, येन आविश्वे जायमानानां समस्यानां समाधानं भवेत् । तेनोक्तं यत् विकसितभारतस्य संकल्पना योगद्वारा एव पूर्णा भविष्यति। कार्यक्रमस्य द्वितीयसत्रस्य शुभारम्भः वैदिकमंगलाचरणेन सरस्वत्यापूजनेन चाभवत्। बलाहरपरिसरस्य निदेशिका प्रो.सत्यकुमारी सर्वेषां स्वागतं कृतवती। सत्रेऽस्मिन् १८ जूनदिनाङ्कात् आरभ्य २० जूनपर्यन्तं जायमानासु राष्ट्रीयप्रतियोगितासु प्रथमद्वितीयतृतीयस्थानं प्राप्तवन्तः भारतस्य विविधेभ्यः कोणेभ्यः समागता प्रतिभागिनः पुरस्कृताः। अस्मिन् सत्रे डॉ.सत्यदेवः कुशलमञ्चसञ्चालनं कृतवान। कार्यक्रमेऽस्मिन् परिसरस्य विभिन्नानां विभागानां पत्रिकाणामपि विमोचनं जातम्, तत्रैव विद्याभारती संस्था हिमाचलप्रदेशः केन्द्रीयविश्वविद्यालयः, नवदेहली इत्यनयोः संस्थयोः मध्ये एमओयू इति हस्ताक्षराणि जातानि। कार्यक्रमे विशिष्टातिथिषु प्रो.बनमालीमिश्रमहोदयः प्रो.मदनमोहनझा सदृशाः गणमान्या उपस्थिता आसन्। अत्रैव प्रो.मदनमोहनझावर्यस्य निर्देशने सामाजिकानां कृते संस्कृतम् ओपम्पियाड इत्यस्य प्रकल्पस्य शुभारम्भः कुलपतेः करकमलाभ्यां जातः। ज्ञातव्यं यत् अन्तर्राष्ट्रीययोगमहोत्सवस्य शुभावसरे देशस्य विभिन्नराज्येभ्यः प्रायः २०० प्रतिभागिनः मार्गदर्शकैः सह वेदव्याससङ्कुलस्य बलाहारे उपस्थिताः आसन्, ये विभिन्नप्रकारस्य योगमुद्राभिः सर्वान् प्रभावितं कृतवन्तः। अस्मिन् काले अतिथिभिः सह विश्वविद्यालयस्य मार्गदर्शकाः, प्राध्यापकाः, प्रतिभागिनः, कर्मचारिणश्च सामूहिकरूपेण योगस्य अभ्यासं कृतवन्तः । अस्य भव्यकार्यक्रमस्य संयोजकः डॉ. पुरुषोत्तमः सर्वेषाम् आभारं प्रकटितवान्। कार्यक्रमे प्रो.मञ्जुनाथभट्टः, प्रो.शीशरामः इत्यादयः गणमान्या उपस्थिता आसन्।