HP News : बद्दी-बरोटीवाला-क्षेत्रयो: भूजलस्य कर्करोगजनकविषाक्ततत्त्वानि
आईआइटी मण्डी-जम्मू-संस्थानयो: शोधस्य विषये ज्ञातम्
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य बद्दी-बरोटीवाला औद्योगिकक्षेत्रयो: भूजले विषाक्ततत्त्वानि सन्ति ये कर्करोगं जनयन्ति । भारतीय-सूचना-प्रौद्योगिकी-संस्थानम् (IIT) मण्डी-जम्मू-इत्यनयोः शोधकर्तृभिः स्वस्य अध्ययने एतत् प्रकाशितम् अस्ति । अत्र जलस्य प्रतिरूपाणां रासायनिकविश्लेषणं शोधकर्तारः कृतवन्तः । अस्य क्षेत्रस्य भूजले प्रदूषितानि रासायनानि सन्ति येन कर्करोगाः इत्यादयः घातकाः रोगाः भवितुम् अर्हन्ति इति ज्ञातम् ।
अत्र जले जस्ता, सीसा, कोबाल्ट्, निकेलः, क्रोमियमः इत्येतेषां च मात्रा: प्राप्ताः सन्ति । यत् सर्वकारेण निर्धारितस्य सुरक्षितमात्रायाः अपेक्षया बहु अधिकम् अस्ति। एतादृशं दूषितं जलं पिबन् जनाः बहूभि: रोगै: पीडिताः भवन्ति । २०१३ तः २०१८ पर्यन्तं अस्मिन् क्षेत्रे कर्करोगस्य, वृक्करोगस्य च अधिकाः प्रकोपाः अभवन् ।
आईआईटी मण्डी-इत्यस्य सिविल- एण्ड-एनवायरनमेंटल-इन्जिनियरिंग- विद्यालयस्य सहाचार्य: (एसोसिएट प्रोफेसर) डॉ. दीपक: स्वामी तथा शोधकर्त्ता उत्सवराजपूत: इत्यनेन सह आईआईटी-जम्मू सिविल- इन्जिनियरिंगविभागस्य सहायकाचार्य: डॉ. नितिन जोशी इत्यनेन सह शोधपत्रं प्रकाशितम् अस्ति। शोधपत्रं प्रतिष्ठितपत्रिकायां साइंस आफ् द टोटल एनवायरनमेण्ट् इत्यस्मिन् प्रकाशितम् अस्ति ।
प्रो. डॉ. स्वामी अवदत् यत् दूषितं भूजलं पिबन् स्वास्थ्यस्य हानिः भवितुम् अर्हति। उद्योगेभ्य: निर्गतजले जस्ता, सीसा, कोबाल्ट्, बेरियम इत्यादीनां धातुनां उपस्थितिः संकटपूर्णा भवति, यत् औद्योगिकस्रोतेभ्यः आगच्छति । व्यस्केभ्य: सर्वाधिकं संकटं कर्करोगः अस्ति, यः मुख्यतया निकेल, क्रोमियम इत्यादीनां औद्योगिकधातुनां कारणेन भवति ।
उद्योगेभ्य: प्रदूषितं जलं स्वास्थ्याय संकट: -डॉ. दीपकस्वामी
प्राध्यापकः डॉ. दीपकस्वामी उक्तवान् यत् दूषितं भूजलस्य सेवनेन स्वास्थ्यस्य महती हानिः भवितुम् अर्हति। औद्योगिकस्रोतेभ्यः सयन्त्रेभ्य: च निर्गतजले जस्ता, सीसा, कोबाल्ट, बेरियम इत्यादीनां धातुनां उपस्थितिः अपि भयङ्करा इति उक्तवान्। व्यस्केभ्य: सर्वाधिकं संकटं कर्करोगः अस्ति, यः मुख्यतया निकेल, क्रोमियम इत्यादीनां औद्योगिकधातुनां कारणेन भवति। डॉ. दीपकस्वामी इत्यनेन उक्तं यत् तस्य निर्देशनेन शोधकर्तृणां समूहः प्राकृतिकविश्लेषणद्वारा आधुनिकप्रक्रियायाः आविष्कारं कर्तुं प्रयतते, येन औद्योगिक-एककेभ्यः प्रदूषितजलस्य भूजलं प्राप्तुं पूर्वं निर्गतस्य प्रदूषितजलस्य प्रभावः न्यूनीकर्तुं शक्यते। अस्य प्रयासस्य कृते उद्योगिनः, सर्वकारः च आवश्यका: सुविधा: प्रदास्यन्ति इति सः आशान्वित: अस्ति।
जलस्य स्वच्छतायां अधिकं ध्यानं दातव्यं भविष्यति : डॉ. नितिन: जोशी
आईआईटी जम्मू-इत्यस्य सिविल-इञ्जिनीयरिङ्ग-विभागस्य सहायक-आचार्य: डॉ. नितिन-जोशी इत्यनेन अस्य शोधस्य उद्देश्यस्य विषये उक्तं यत् बद्दी-बरोटीवाला-जलस्य अन्वेषणेन ज्ञातं यत् अस्मिन् अतीव संकटयुता: धातव: प्राप्ताः येन कर्करोगाः इत्यादयः गम्भीराः रोगाः उत्पद्यन्ते। यतः प्रदूषितभूजलस्य शोधनं अतीव जटिलं महत् च प्रक्रिया अस्ति । एतादृशे सति प्रदूषितजलस्य स्वच्छतायाः प्रौद्योगिक्याः उन्नतिं कर्तुं महती आवश्यकता वर्तते ।