HP Election 2024 : उपनिर्वाचनाय भाजपा-कांग्रेसाभ्यां प्रभारिण: नियुक्ता:
HP Election 2024 : उपनिर्वाचनाय भाजपया नियुक्ता: प्रभारिण: समन्वयका: च
हिमसंस्कृतवार्ता: – शिमला।
भाजपादलस्य प्रदेशाध्यक्ष डॉ. राजीव बिन्दल: १० जुलाई २०२४ दिनांके आयोज्यमानाय विधानसभा- उपनिर्वाचनाय प्रभारिण:, सहप्रभारिण:, संयोजका:, सहसंयोजका: च नियुक्ता: सन्ति। पूर्वमन्त्री तथा विधायक: सुखराम: चौधरी नालागढविधानसभानिर्वाचनक्षेत्रस्य प्रभारी भविष्यति, सहैव संयोजकत्वेन राज्यसभासांसद: प्रदेशमहामंत्री डॉ. सिकंदरकुमार: च भविष्यति। सहप्रभारी पूर्वमन्त्री तथा भाजपा: उपाध्यक्ष डॉ. राजीव सैजल: तथा सहसंयोजक: विधायक भाजपाप्रवक्ता च बलबीरवर्मा भविष्यन्ति।
एवमेव देहराविधानसभानिर्वाचनक्षेत्रस्य प्रभारी पूर्वविधानसभाआध्यक्ष तथा कांगड़ासंसदीयनिर्वाचनक्षेत्रस्य प्रभारी विपिनपरमार:, सहप्रभारी पूर्वमंत्री तथा विधायक: बिक्रमठाकुर:, संयोजक: मुख्यप्रवक्ता तथा विधायक: राकेशजमवाल: तथा सहसंयोजक: भाजपा-उपाध्यक्ष: विधायक: पवन काजल: च भविष्यति। एवमेव हमीरपुर-विधानसभाक्षेत्रस्य प्रभारी श्रीनैणादेव्या विधायक: रणधीरशर्मा, सहप्रभारी विधायक: त्रिलोकजमवाल:, संयोजक: प्रदेशमहासचिव: बिहारीलालशर्मा एवं सहसंयोजक: विधायक: दिलीपठाकुर: च भविष्यन्ति।
HP Election : काङ्ग्रेसेन उपनिर्वाचनाय प्रभारिण: नियुक्ता:
हिमसंस्कृतवार्ता: -शिमला ।
हिमाचलप्रदेशकाङ्ग्रेससमितेः महासचिवः रजनीशकिमटा इत्यनेन उक्तं यत् आगामिविधानसभा उपनिर्वाचनार्थं काङ्ग्रेसपक्षः पूर्णतया सज्जः अस्ति, एकतापूर्वकं धनशक्तेः सम्मुखीकरणं करिष्यति। सः अवदत् यत् काङ्ग्रेसपक्षेण देहराविधानसभासनस्य उपनिर्वाचनार्थं कृषिमन्त्री चौधरीचन्द्रकुमार:, नालागढविधानसभासनार्थं शिक्षामन्त्री रोहितठाकुर:, हमीरपुरविधानसभासनार्थं तकनीकीशिक्षामन्त्री राजेशधर्माणी च नियुक्ता: सन्ति।
सः अवदत् यत् सद्यैव विधानसभा-उपनिर्वाचने काङ्ग्रेस-पक्षेण चत्वारि आसनानि प्राप्तानि, येन हिमाचल-प्रदेशस्य जनाः काङ्ग्रेस-सर्वकारस्य नीतिभि:, कार्यक्रमै:, नेतृत्वेन च प्रसन्नाः सन्ति, मतदातारः भाजपाया: अश्वव्यापार-राजनीतिं च नाङ्गीकृतवन्तः इति प्रमाणम् अस्ति । सः अवदत् यत् आगामिषु विधानसभा-त्रयेषु उपनिर्वाचनेषु काङ्ग्रेस-दलम् एकीकृत्य भाजपायाः अनैतिक-चरणस्य सम्मुखीभवति, त्रिषु आसनेषु विजयध्वजं च उत्थापयिष्यति।