अपराधः – चम्बायां आईबी इत्यस्य एएसआई अधिकारिणः हत्या
चम्बा-नगरस्य सलूणी-नगरे एकः विचलितः प्रसंगः प्रकाशे आगतः। अत्र किहारक्षेत्रे एकस्य आईबी संस्थायाः एएसआई अधिकारिणः हत्यायाः प्रकरणं चर्चायामस्ति। घटनायाः सूचना प्राप्तमात्रेण जिलापुलिसाधिकारी चम्बा, उपमण्डलाधिकारी सलूणी, उपमण्डलपुलिसाधिकारी सलूणी च स्थलं प्राप्तवन्तः। स्थलात् प्रमाणं संग्रहीतुं न्यायिकविशेषज्ञानाम् एकं दलं तत्र आहूतम् अस्ति। सूचनानुसारं बुधवासरे प्रातःकाले किहारपुलिसस्थानकात् प्रायः ८० मीटर् दूरे आईबी संस्थायाः एएसआई इत्यस्य मृतदेहः मार्गपार्श्वे शयितः अभवत्। प्रारम्भिकान्वेषणेन अस्याः हत्यायाः प्रकरणम् इति ज्ञात्वा पुलिसदलेन तत् स्थानं मुद्रितम्। मृतस्य शिरसि व्रणस्य चिह्नानि प्राप्तानि। मृतकः एसएसआई अरुणकुमारः मंडीजनपदस्य निवासी आसीत्।
अपराधः – चम्बायां आईबी इत्यस्य एएसआई अधिकारिणः हत्या
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment