‘अहं नरेन्द्रदामोदरदासमोदी ईश्वरस्य शपथं’….. राष्ट्रपतिभवने तृतीयवारं क्रमशः गुञ्जितानि प्रधानमन्त्रिणः वचनानि
हिमसंस्कृतवार्ताः,09 जून। श्री नरेन्द्रमोदी नवदिल्लीनगरे क्रमशः तृतीयवारं प्रधानमन्त्रीरूपेण शपथं गृहीतवान्। राष्ट्रपति द्रौपदी मुर्मू इत्यनया राष्ट्रपतिभवने नूतनकेन्द्रीयमन्त्रिमण्डलाय पदस्य, गोपनीयतायाः च शपथं कारितम् । भारतीय-जनतादलस्य वरिष्ठनेता राजनाथसिंहः, अमितशाहः, नितिनगडकरी, डॉ. एस.जयशंकरः, पीयूषगोयलः, धर्मेन्द्रप्रधानः, राज्यसभा सांसदः निर्मला सीतारमणः , दलस्य अध्यक्ष जे.पी.नड्डा, मध्यप्रदेशस्य पूर्वमुख्यमंत्री शिवराजसिंहचौहानः, हरियाणायाः पूर्वमुख्यमंत्री मनोहरलालः मन्त्रिमण्डलमन्त्रीरूपेण शपथग्रहणं कृतवन्तः । एतदातिरिक्तं कर्नाटकस्य पूर्वमुख्यमन्त्री किञ्च जनतादलस्य धर्मनिरपेक्षसांसद एच.डी. कुमारस्वामी, बिहारस्य पूर्वमुख्यमंत्री हिन्दुस्तान-आवाम-मोर्चा- दलस्य प्रमुखः जीतनराममांझी, जनतादलसंयुक्तः इत्यस्य सांसदः राजीवरंजनसिंहः, असमप्रदेशस्य पूर्वमुख्यमंत्री सर्वानन्दसोनोवालः अपि मन्त्रिमण्डलस्य मन्त्रित्वेन शपथं ग्रहीतवन्तः।
अस्माकं संवाददाता उक्तवान् यत् शपथग्रहणसमारोहे समीपस्थदेशानां हिन्दमहासागरस्य च बहवः नेतारः उपस्थिताः आसन्।
श्रीलंकायाः राष्ट्रपतिः रणिलविक्रमसिंहः, मालदीवस्य राष्ट्रपतिः डॉ. मोहम्मद मुइज्जू, सेशेल्स इत्यस्य उपाध्यक्षः अहमद आफीफः, बांग्लादेशस्य प्रधानमंत्री शेखहसीना, मॉरीशस देशस्य प्रधानमंत्री प्रविन्द कुमार जुगनाउथ, नेपालस्य प्रधानमंत्री पुष्पकमलदाहालः ‘प्रचंडः’ , भूटानस्य प्रधानमन्त्री त्शेरिंगतोबगे समारोहे सम्मिलितः ।
उपराष्ट्रपतिः जगदीपधनखरः, कांग्रेसप्रमुखः मल्लिकार्जुनखर्गे, बिहारस्य मुख्यमंत्री किञ्च जनता-दल-संयुक्ताध्यक्षः नीतीशकुमारः, आंध्रप्रदेशस्य मुख्यमंत्री एन.चंद्रबाबू नायडू, उत्तराखंडस्य मुख्यमंत्री पुष्करसिंहधामी, उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः, मणिपुरस्य मुख्यमंत्री एन बीरेन सिंहः हरियाणायाः मुख्यमन्त्री नायबसिंह सैनी, महाराष्ट्रस्य उपमुख्यमन्त्री अजीतपवारः इत्यादयः अनेके गणमान्यजनाः उपस्थिताः आसन्। एतदातिरिक्तं शपथग्रहणसमारोहे अभिनेतारः रजनीकान्तः, शाहरुखखानः, अक्षयकुमारः, विक्रान्तमेस्सी, चलचित्रनिर्माता राजकुमारहिरानी, उद्योगपतिः मुकेश अम्बानी, गौतमअदानी चापि उपस्थिताः आसन्।
‘अहं नरेन्द्रदामोदरदासमोदी ईश्वरस्य शपथं ’….. तृतीयवारं गुञ्जितानि प्रधानमन्त्रिणः वचनानि
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment