National News :
- प्रधानमन्त्रिणा देशस्य अत्यन्ततापस्य स्थिते: समीक्षितुं सभा आयोजिता।
- अरुणाचलसिक्किम- Election Result : भारतीय जनतापार्टीति दलेन अरुणाचप्रदेशः नैर्वाचनिकसमराङ्गणं विजित्य सुरक्षितः।
- Cuba Help : भारतेन क्यूबादेशाय मानवीयसहायतारूपेण औषधनिर्माणे सहायकाः नवति-टन- परिमित-सामग्र्यः सम्प्रेषिताः।
- लोकसभानिर्वाचनस्य परिणाममभिलक्ष्य सुरक्षा-व्यवस्था सुदृढ़ा।
- रेलयानदुर्घटना : लुधियाना-अम्बाला-मुख्यरेलमार्गे द्वे भारवाहके रेलयाने दुर्घटनाग्रस्ते।
- लोकसभानिर्वाचनस्य मतगणनाया: पूर्वं विपक्षस्य उपवेशनम्।
- Meteorological Department: दिल्लीं समेत्य उत्तरपश्चिमभारते प्रचलित अति तापतरङ्गे आयाति न्यूनता।
प्रधानमन्त्रिणा देशस्य अत्यन्ततापस्य स्थिते: समीक्षितुं सभा आयोजिता
हिमसंस्कृतवार्ता:-प्रवीण कुमार:।
ह्य: प्रधानमन्त्रिणा देशे अत्यन्तं तापस्य स्थिते: समीक्षितुं सभा कृता। सभायां प्रधानमन्त्रिणं सूचितं यत् मौसमविभागस्य पूर्वानुमानानुसारं राजस्थान-गुजरात-मध्यप्रदेशेषु च तप्ततापः निरन्तरं भवितुं शक्यते। अस्मिन् वर्षे मानसूनः सामान्यः भवितुम् अर्हति तथा च देशस्य अधिकांशभागेषु सामान्यतः उपरि वर्षा भवितुं शक्नोति यदा प्रायद्वीपीयभारतस्य केषुचित् भागेषु सामान्यतः न्यूनवृष्टिः भवितुम् अर्हति।
अग्निसम्बद्धानां घटनानां निवारणाय, नियन्त्रितुं च नियमितरूपेण पर्याप्ताः अभ्यासाः अवश्यं करणीयाः इति प्रधानमन्त्रिणा निर्देशः दत्तः। चिकित्सालयेषु अन्येषु च सार्वजनिकस्थानेषु अग्निपरीक्षाः विद्युत्सुरक्षापरीक्षा च नियमितरूपेण अवश्यं करणीयाः। वन अग्निप्रकोपस्य समये परिचयाय तस्य प्रबन्धनस्य च कृते वन-अग्निपटल इत्यस्य उपयोगितायाः विषये अपि प्रधानमन्त्रिणं सूचितम्।
अरुणाचलसिक्किम- Election Result : भारतीय जनतापार्टीति दलेन अरुणाचप्रदेशः नैर्वाचनिकसमराङ्गणं विजित्य सुरक्षितः
हिमसंस्कृतवार्ता । भारतीय जनतापार्टीति दलेन अरुणाचप्रदेशराज्यं नैर्वाचनिकसमराङ्गणं विजित्य सुरक्षितम्। सिक्किमक्रान्तिमोर्चा इत्याख्येन दलेनापि द्वात्रिशंदासनेषु एकत्रिशंत् स्थानानि विजित्य सिक्किमप्रदेशे पुनरेकवारं सत्ता प्राप्ता। उभयोः पूर्वोत्तरीयराज्ययोः विधानसभा- निर्वाचनस्य अद्य मतगणना आसीत्। उभयत्र हि एकोनविंशे अप्रैलमासे मतदानमासीत्। यत्र अरुणाचलप्रदेशे षष्टिः आसन्दानि आसन्, तत्रैव सिक्किमे द्वात्रिंशत् आसन्दानि आसन्। अरुणाचलप्रदेशे च भाजपेति दलेन दश आसनेषु निर्विरोधतया निर्वाचनपुरस्सरम् आहत्य षड्चत्वारिंशत्स्थानानि सन्ति सुरक्षितानि ।
Cuba Help : भारतेन क्यूबादेशाय मानवीयसहायतारूपेण औषधनिर्माणे सहायकाः नवति-टन- परिमित-सामग्र्यः सम्प्रेषिताः
हिमसंस्कृतवार्ता। भारतेन क्यूबादेशाय मानवीयसहायतारूपेण औषधनिर्माण सहायकाः नवति-टन- परिमित सामग्र्यः सन्ति सम्प्रेषिताः। एताः सामग्ग्र्यः गुजरातस्य मुन्द्रा सागरीय-पोत-स्थानकात् प्रस्थिताः। विदेशमन्त्रालयस्य प्रवक्त्रा रणधीरजायसवालेन समाजिकसञ्चारतन्त्रजाले उक्तं यत् एषा सहायता प्रमुख औषधापूर्तिकर्तृ-देशरूपेण भारतस्य परिचयः विश्वफलके कारयिष्यति। सहैव हि एषा सहायता क्यूबा-भारतयोः सम्बन्धान् प्रति प्रतिबद्धतामपि दर्शयतीति।
लोकसभानिर्वाचनस्य परिणाममभिलक्ष्य सुरक्षा-व्यवस्था सुदृढ़ा
हिमसंस्कृतवार्ता। भारत-निर्वाचनायोगेन निर्वाचनानन्तरं कथमपि हिंसा न भवेदिति उद्दिश्य राज्येभ्यः केन्द्रीयसुरक्षाबल-दलानि संदत्तानि सन्ति। आयोगेन निर्णयोऽयं राज्यपर्यवेक्षकैः सह केन्द्रीय- पर्यवेक्षकानाम् समाकलनानन्तरं कृतोऽस्ति। आन्ध्रप्रदेश पश्चिमबङ्गालयोः मतगणनायाः पञ्चदशदिवसान्तं यावत् सुरक्षाबलानि स्थास्यन्तीति अस्ति निर्णयः आयोगस्य।
रेलयानदुर्घटना : लुधियाना-अम्बाला-मुख्यरेलमार्गे द्वे भारवाहके रेलयाने दुर्घटनाग्रस्ते
हिमसंस्कृतवार्ता। पञ्चाबप्रान्तस्य फतेहगढ-साहिब इत्यत्र गतदिवसे पप्रातः लुधियाना-अम्बाला-मुख्यरेलमार्गे द्वे भारवाहके रेलयाने दुर्घटनाग्रस्ते अभवताम्। अस्मत्वार्ताहरेण प्रोक्तं यत् अनया दुर्घटनया एकपञ्चाशत् रेलयानानि वाधितानि अजायन्त, सप्त च निरस्तीकृतानि अभवनिति।
लोकसभानिर्वाचनस्य मतगणनाया: पूर्वं विपक्षस्य उपवेशनम्
हिमसंस्कृतवार्ता। मङ्गलवासरे जायमानायाः लोकसभानिर्वाचनस्य मतगणनायाः प्राक् विपक्षस्य इण्डिया घटबन्धनेन परह्यः नवदिल्ल्यां एकम् उपवेशनं कृतम्, तत्रस्थैः नेतृभिः पञ्चनवत्यधिक- द्विशतम् लोकसभासनेषु जयं अधिगमिष्यन्ति इति विश्वासः प्रकटितः। उपवेशनेऽस्मिन् कांग्रेसदलप्रमुखः मल्लिकार्जुनखड़गे, श्रीराहुल गांधी, केसीवेणुगोपाल अन्ये च नेतारः आभासीयमाध्यमेनापि सम्मिलिताः अभवन्।
Meteorological Department: दिल्लीं समेत्य उत्तरपश्चिमभारते प्रचलित अति तापतरङ्गे आयाति न्यूनता
हिमसंस्कृतवार्ता। भारतीय-ऋतु-विज्ञान-विभागेन उक्तं यत् दिल्लीं समेत्य उत्तरपश्चिमभारते प्रचलित अति तापतरङ्गे न्यूनता आयातीति। विभागेन उक्तं यत् देशस्य उत्तरपश्चिम-मध्यभागेषु अपि च ओडिशायाः केषुचित् स्थानेषु अद्य तापतरङ्गः इतोपि संवर्धिष्यति। आकाशवाण्या सह वार्तालापं कुर्वन् ऋतुवैज्ञानिकः आर. के. जेनामणिः अवदत् यत्, दिल्लीं समेत्य उत्तरपश्चिमभारते तापमानं क्रमेण न्यूनं भवति। श्रीजेनामणिः एतत् समुल्लेखयन् अवदत् यत् पाश्चिम-विक्षोभः वातावरणं प्रभावितं करोतीति येन कारणेन तापमाने इतोपि न्यूनता आयातीति। सः अवदत् यत् पश्चिमविक्षोभस्य प्रभावेण दिल्ल्या सहैव देशस्य उत्तर-पश्चिम- क्षेत्रेष्वपि जूनमासस्य चत्वारतः षड्-दिनाङ्क यावत् वज्रपातपुरस्सरं विद्युत्-वायुभ्यां सह वृष्टेः संभावना अपि विद्यते। भारतीय-ऋतु-विज्ञान-विभागेन आगामिषु त्रि-चतुर्दिनेषु पूर्वोत्तरभारतस्य दक्षिणप्रायद्वीपीयभारतस्य च पृथक् पृथक् क्षेत्रेषु अतिवृष्ट्याः अपि संभावना प्रकटितास्ति। आगामिषु चतुर्दिनेषु अरुणाचलप्रदेश, असम, मेघालय, उपहिमालयीय पश्चिमबङ्ग, सिक्किम इत्येतेषु स्थानेषु प्रचण्डवृष्टेः आत्यन्तिकी सम्भावना वर्तते तथा च सोमवासरे मंगलवासरे च मणिपुरे अतिवृष्टिः अपि भवितुं शक्नोतीति।