Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- निर्वाचनप्रचारः – लोकसभानिर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च प्रचारः गतदिवसे सायंकाले समाप्तः। प्रधानमंत्रिणा मोदिना पञ्जाबस्य होशियारपुरे कृता जनसभा।
- प्रधानमन्त्री नरेन्द्रमोदी अद्य आरभ्य तमिलनाडुप्रदेशस्य कन्याकुमार्यां त्रिदिवसीययात्रायां भविष्यति। कन्याकुमार्यां श्रीमोदी शिलास्मारकं गत्वा पुरा यत्र स्वामी विवेकानन्दः ध्यानं कृतवान् तत्रैव ध्यानमण्डपमे ध्यानं करिष्यति। अस्याः शिलायाः स्वामी विवेकानन्दस्य जीवने महती प्रभावः आसीत्।
- भारतस्य ऋतुविज्ञानविभागेन (IMD) सूचितं यत् दक्षिणपश्चिमवर्षर्तुः केरलस्य उपरि प्रविश्य अद्य पूर्वोत्तरभारतस्य अधिकांशभागेषु उन्नति याति। जूनमासस्य प्रथम-दिनांकः इति सामान्यप्रारम्भदिनात् दिवसैक पूर्व वर्षर्तुः आयाति।
- एकस्मिन् उल्लेखनीयसिद्धौ भारतीय प्रौद्यौगिकी संस्थान मद्रास- इत्यस्य नवोद्योग-संस्था अग्निकुल-कोस्मोस्-इत्यनेन एकखण्ड-त्रि-आयामी (3D) मुद्रित-प्रचालकेन सह विश्वस्य प्रथमं आग्नेयास्त्र-प्रक्षेपणं कृतम् अस्ति।
- प्रधानमन्त्रिणा नरेन्द्रमोदिना सामाजिक-प्रसार-तन्त्र-जाले उक्तं यत् अग्निबान-प्रक्षेपास्त्रस्य सफलप्रक्षेपणं भारतस्य अन्तरिक्षक्षेत्रस्य कृते महत्त्वपूर्णः अवसरः अस्ति अपि च अस्माकं युवशक्तेः विलक्षण-चातुर्यस्य प्रमाणम् अस्ति। श्रीमोदी सर्वेभ्यः शुभकामनाम् अयच्छत्।
- मुष्टामुष्टी- ओलम्पिक-पात्रताप्रतियोगितायां भारतस्य सचिन-सिवाचः प्रवेशं प्राप्तवान्।
- चतुरङ्गक्रीडायां प्रज्ञानानंदेन शास्त्रीय-स्पर्धायां प्रथमवारं नॉर्वे देशस्य मैग्नस-कार्लसन् इत्येषः पराजितः ।
हिमाचलवार्ता:
- हिमाचलप्रदेशे अभिलेखविध्वंसकतापस्य मध्ये ऋतौ परिवर्तनं जातम्। गुरुवासरे अपराह्ने राज्यराजधानी शिमलानगरे वर्षा अभवत्। वर्षाकारणात् ऋतु: शीतलः जातः। गतरात्रौ लाहौल-शिखरेषु लघुहिमपातः अभवत्। ऋतुविज्ञानकेन्द्रं शिमलाद्वारा गुरुवासरात् एकसप्ताहं यावत् राज्यस्य अनेकेषु भागेषु वर्षा भविष्यति इति पूर्वानुमानं कृतम्।
- कुल्लुजनपदस्य रायसनस्य समीपे पैराग्लाइड-यानं कुर्वन् ऊर्ध्वतः पतित्वा एकः पर्यटकः मृतः। मृतकस्य परिचय: ५७ वर्षीयः गौतम खरात: पुत्रः कृष्णखरात: इति ज्ञातम्। मृतः महाराष्ट्रस्य ठाणेमण्डलस्य निवासी आसीत्। पुलिसैः शवः स्वनिग्रहे गृहीत्वा दुर्घटनायाः अन्वेषणं आरब्धम् अस्ति।
- हिमाचले जूनमासस्य प्रथमदिनाङ्के आयोज्य लोकसभा- मतदानं दृष्ट्वा शुष्कदिवसस्य घोषणा कृता अस्ति। आदेशानुसार मई 30 दिनांकत: सायं 6 वादनतः 1 जून दिनाङ्कस्य सायं 6 वादनपर्यन्तं अथवा मतदानप्रक्रियायाः समाप्तिपर्यन्तं शुष्कदिवसः प्रयोज्यः भविष्यति। तथैव जूनमासस्य ४ दिनाङ्कः अपि शुष्कदिवसः इति घोषितः अस्ति।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः निर्वाचनप्रचारस्य अन्तिमे दिने चक्रवात- भ्रमणं कृत्वा देहराया: मुहाले धरमपुरस्य चलोथरायां, सुजानपुरे, कुटलैहड़स्य समलाडायां, कोटे च जनसभा: सम्बोधितवान्। मुख्यमन्त्री उक्तवान् यत् विक्रीतस्य कमलस्य पुष्पीकरणं न भविष्यति। विक्रयणीयकाङ्ग्रेसविधायकान् नामपत्रं दत्त्वा भाजपाया: वास्तविककार्यकर्तारः निराशाः भवन्ति। लोकसभया सह भाजपायाः षट् विधानसभासनेषु पराजयस्य सम्मुखीकरणं कर्तव्यं भविष्यति।
- विपक्षस्य नेता जयरामठाकुरः मण्डीजनपदस्य करसोगनगरे भूतल-परिवहनमन्त्री नितिनगडकरी इत्यस्य कृते आयोजितायां जनसभायाम् अवदत् यत् आगामिसमये सम्पूर्णे हिमाचले एकलक्षकोटिरूप्यकाणां परियोजनाः प्रचलन्ति येन राज्ये यातायातस्य सरलता सुलभं भविष्यति। राज्यस्य प्रत्येकं कोणं उत्तममार्गैः, कन्दराभि:, रज्जुमार्गैः च सम्बद्धं भविष्यति। अस्माकं मध्ये राजमार्गपुरुषः नितिनगडकरी एतद् सर्वम् अददत्। एषा नरेन्द्रमोदी इत्यस्य प्रतिज्ञा अस्ति।