भारतीयः पर्वतारोही सत्यदीपगुप्ता एकस्मिन् ऋतौ द्विवारं एवरेस्ट पर्वतस्य, माउण्ट ल्होत्से पर्वतस्य च आरोहणं कृत्वा इतिहासं रचितवान्
हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: ।
भारतीयः पर्वतारोही सत्यदीपगुप्ता इतिहासं रचितवान्। स: एतादृश: प्रथमः व्यक्तिः अभवत् येन एकस्मिन् ऋतौ द्विवारं एवरेस्ट पर्वतस्य, माउण्ट ल्होत्से पर्वतस्य च आरोहणं कृतम्। सः एवरेस्ट पर्वतात् माउण्ट ल्होत्से यावत् ११ होरा: १५ निमेषेषु गत्वा अन्यं अभिलेखं निर्मितवान्। सः सोमवासरे अपराह्णे ८ सहस्र ५१६ मीटर ऊर्ध्वं माउण्ट ल्होत्से पर्वतस्य आरोहणं कृतवान्। तदनन्तरं सः अर्धरात्रे १२:४५ वादने ८ सहस्राणि ८४९ मीटर ऊर्ध्वं माउण्ट एवरेस्ट पर्वतम् आरोहितवान्। तेन सह पर्वतारोहणमार्गदर्शकाः पेस्टेम्बा शेरपा, निमा उङ्गादिशेर्पा च आसन्। अवधेयं वर्तते यत् गुप्तामहोदयः इत: पूर्वं मईमासस्य २१ दिनाङ्के एवरेस्ट् पर्वतस्य, २२ दिनाङ्के ल्होत्से पर्वतस्य च आरोहणं कृतवान् आसीत्।
रक्षा-अनुसन्धानविकाससङ्गठनेन (DRDO) ओडिशानगरे भारतीयवायुसेनायाः SU- 30MK- One मञ्चात् रुद्र एम-II वायुतः सतहपर्यन्तं क्षेपणास्त्रस्य सफलतया परीक्षणं कृतम्। रक्षामन्त्रालयेन उक्तं यत् परीक्षणस्य सर्वे उद्देश्याः पूर्णाः अभवन्।
हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: ल्।
रक्षा-अनुसन्धानविकाससङ्गठनेन (DRDO) ओडिशानगरे भारतीयवायुसेनायाः SU-30MK-One मञ्चात् रुद्र एम-II वायुतः सतहपर्यन्तं क्षेपणास्त्रस्य सफलतया परीक्षणं कृतम्। रक्षामन्त्रालयेन उक्तं यत् परीक्षणस्य सर्वे उद्देश्याः पूर्णाः अभवन्। रुद्र एम- द्वितीयः स्वदेशीयरूपेण विकसितः क्षेपणास्त्रप्रणाली अस्ति। अस्मिन् विभिन्नासु प्रयोगशालासु विकसिताः बहवः अत्याधुनिकाः स्वदेशीयाः विधय: समाविष्टाः सन्ति। रुद्र एम-द्वितीयस्य सफलपरीक्षणविमानस्य कृते रक्षामन्त्री राजनाथसिंहः डीआरडीओ, वायुसेना, रक्षाउद्योगं च अभिनन्दितवान्। सः अवदत् यत् रुद्र एम- द्वितीयप्रणाल्याः सफलपरीक्षणेन भारतीयवायुसेनायाः क्षमता वर्धते। डीआरडीओ अध्यक्षः डॉ. समीर वी कामतः स्वस्य दलस्य अथकप्रयत्नस्य, सफले उड्डयनपरीक्षायां योगदानस्य च प्रशंसाम् अकरोत्।
उपराष्ट्रपति: जगदीप धनखड़: अद्य उत्तराखण्डस्य एकदिवसीययात्रायां गमिष्यति
हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: ।
उपराष्ट्रपति: जगदीप धनखड़: अद्य उत्तराखण्डस्य एकदिवसीययात्रायां भविष्यति। सः कैञ्चीधामस्य नीमकरोलीमन्दिरस्य दर्शनमपि करिष्यति। प्राप्तवार्तानुसारं भ्रमणकाले उपराष्ट्रपतिः पन्तनगरस्य गोविन्दबल्लभपन्त- कृषिप्रौद्योगिकी- विश्वविद्यालये प्राध्यापकसम्मेलनमपि सम्बोधयिष्यति।