HP Election : ‘भाजपा मताधिकारम् क्रेतुम् इच्छति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः’
हिमसंस्कृतवार्ता- नाहनम्।
सिरमौरजनपदस्य नाहननगरे विशालां जनसभां सम्बोधयन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् भाजपा जनमताधिकारम् क्रेतुम् इच्छति। सः अवदत् यत् स्वातन्त्र्यार्थं दीर्घकालं यावत् संघर्षस्य अनन्तरं काङ्ग्रेसपक्षेण देशवासिनां कृते मतदानस्य अधिकारः दत्तः, परन्तु अधुना भाजपा मतदानस्य मूल्यं कर्तुम् इच्छति। अतः जनभावनासम्बद्धं मूल्यं कर्तृदलाय जूनमासस्य प्रथमदिनाङ्के पाठं पाठयितुं समयः आगतः।
सः अवदत् यत् इदानीं राज्यस्य जनाः काङ्ग्रेसपक्षस्य युद्धं करिष्यन्ति यतोहि एतेन निर्वाचनेन भविष्यस्य राजनीते: स्थितिः दिशा च निर्णीता भविष्यति। केवलं जनाः एव धनशक्तिं पराजयितुं शक्नुवन्ति। सः अवदत् यत् एतत् निर्वाचनं साधारणं निर्वाचनं नास्ति। एषः विकल्पः प्रामाणिकता-अनिष्ठयो: सत्य-असत्ययोः धर्म-अधर्मयोः च मध्ये अस्ति। परन्तु अन्ते प्रामाणिकता सत्यं च विजयं प्राप्स्यति इति निश्चितम्। सः अवदत् यत् यदा भाजपा मतदानद्वारा सत्तां प्राप्तुं न शक्नोति तदा मुद्रापत्राणां साहाय्येन सत्तां ग्रहीतुं प्रयत्नं कृत्वा राजनैतिकविपण्यां षट् विधायकाः क्रीता:।
काङ्ग्रेसस्य वरिष्ठनेतारं राहुलगान्धिं स्वनेता इति सम्बोधयन् सुखविन्दरसिंहसुक्खुः अवदत् यत् काङ्ग्रेससर्वकारेण तस्य आदेशस्य पूर्णतया अनुसरणं कृतम्। मुख्यमन्त्री उक्तवान् यत् देशस्य एकस्य प्रधानमन्त्रिणः पुत्रः, एकस्य प्रधानमन्त्रिणः पौत्रः च वरिष्ठः काङ्ग्रेसनेता राहुलगान्धी देशस्य एकतायाः अखण्डतायै च ४५०० किलोमीटरमिता भारतं योजयतु यात्रा कृता। सः अवदत् यत् राहुलगान्धी सामान्यपरिवारात् राजनीतिं प्रति आगतं व्यक्तिं हिमाचलप्रदेशस्य मुख्यमन्त्री भवितुम् अवसरं दत्तवान् तथा च सर्वकारीययोजना: समाजस्य अन्तिमव्यक्तिपर्यन्तं नेतुम् निर्देशान् दत्तवान्।
राहुलगान्धी उक्तवान् यत् युन: जीविका: प्राप्नुयु:, महिलानां सम्मानम् च भवेत्। सः अवदत् यत् वर्तमानकाङ्ग्रेससर्वकारेण १.३६ लक्षकर्मचारिभ्यः पुरातनवृत्ति: दत्ता। महिलाभ्यः १५०० रूप्यकाणां वृत्तिं दत्त्वा प्रतिवर्षं तेषां वित्तकोषसंख्यासु १८००० रूप्यकाणां राशिः निक्षिप्ता भवति। २७ वर्षपर्यन्तं विधवानां बालकानां कृते निःशुल्कशिक्षा प्रदत्ता अस्ति तथा च निराश्रितबालानां परिचर्यायाः शिक्षायाः च सम्पूर्णं व्ययः राज्यसर्वकारः वहति। किम् एषः अपराधः?