HPCM : यदि अनुमतिः दीयते तर्हि २४ होराभ्यन्तरे १५०० रूप्यकाणि महिलानां वित्तकोषसंख्यासु निक्षिप्तानि भविष्यन्ति
हिमसंस्कृतवार्ता- काङ्गड़ा।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः काङ्गड़ाजनपदस्य ज्वाली-इन्दौरा- नूरपुर- विधानसभाक्षेत्रेषु काङ्ग्रेसपक्षे प्रचारं कृतवान् । सः काङ्गड़ाप्रत्याशी आनन्दशर्मा इत्यस्य विशालमतैः विजयी कर्तुं आह्वानं कृतवान् तथा च भाजपायाः उपरि तीक्ष्णाणि आक्रमणानि कृतवान् मुख्यमन्त्री उक्तवान् यत् भाजपा महिलानां कृते १५०० रुप्यकाणां वृत्तिं स्थगयितुं प्रतिदिनं नवीनाः बाधाः सृजति। विपक्षस्य नेता जयरामठाकुरः अन्ये च भाजपानेतारः निर्वाचन-आयोगात् महिलासुखसम्माननिधिं रोधयितुं बहुवारं प्रयतन्ते, दिल्लीतः अपि निर्वाचन-आयोगस्य उपरि प्रभावः क्रियते।
सः अवदत् यत् काङ्ग्रेसपक्षस्य विरोधस्य अनन्तरं निर्वाचन-आयोगेन महिलाः पेन्शनप्रपत्राणि पूरयितुं अनुमति: दत्ता अधुना महिलाः योजनायाः प्रपत्राणि पूरयन्ति। यदि भाजपा विरोधं निवृत्तं करोति निर्वाचन-आयोगः अनुमतिं ददाति तर्हि २४ होराभ्यन्तरे १५०० रुप्यकाणि महिलानां वित्तकोषसंख्यासु स्थानान्तरितानि भविष्यन्ति। अनुमतिः न दीयते चेदपि जूनमासे महिलानां कृते ३००० रुप्यकाणां अंशद्वयं दीयते। सः अवदत् यत् काङ्ग्रेस-सर्वकारेण महिलानां सशक्तिकरणाय बहुप्रयत्नाः कृताः। पुलिसेषु महिलानां आरक्षणं ३० प्रतिशतं यावत् वर्धितम् अस्ति।
सुक्खुः अवदत् यत् काङ्ग्रेसः निर्वाचनलाभं विचार्य कार्यं न करोति। सर्वकारस्य दुर्बलवित्तीयस्थितिः अस्ति चेदपि काङ्ग्रेससर्वकारेण मन्त्रिमण्डलसभायां राज्यस्य १.३६ लक्षं सर्वकारीयकर्मचारिभ्यः पुरातनवृत्ति: दत्ता, यदा तु भाजपानेतारः दिल्लीनगरे ९००० कोटिरूप्यकाणां एनपीएस-इत्यस्य रोधाय कार्यं कुर्वन्ति। सः अवदत् यत् पूर्वभाजपासर्वकारे जयरामठाकुरः पञ्चवर्षपर्यन्तं निद्रां कुर्वन् राज्यकोषं लुण्ठति स्म। काङ्ग्रेस-सर्वकारेण भ्रष्टाचारं स्थगयित्वा जनानां मध्ये सार्वजनिकधनस्य वितरणं कृतम् अस्ति ।
मुख्यमन्त्री उक्तवान् यत् भाजपा धनशक्तिद्वारा लोकतान्त्रिकरूपेण निर्वाचितं सर्वकारं पातयितुं एकमासपर्यन्तं असफलतया प्रयासं कृतवती अस्ति। अधुना जनसमूहः काङ्ग्रेससर्वकारस्य युद्धं करिष्यति। सः अवदत् यत् भवतः मतस्य शक्तिः एव लोकतन्त्रस्य उद्धारं कर्तुं शक्नोति। यदि एवं राजनैतिकविपण्यां विधायकानाम् विक्रयणं भवति तर्हि जनमतस्य महत्त्वं किं भविष्यति ? जूनमासस्य प्रथमे दिने राज्यस्य जनाः अश्वव्यापारस्य राजनीतिं कठिनं पाठं पाठयिष्यन्ति।
सुक्खुः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी वाराणसीतः निर्वाचनं कर्तुं शक्नोति, आनन्दशर्मा हिमाचलस्य निवासी अस्ति। यदा भाजपा प्रत्याशी काङ्गड़ासहकारीवित्तकोसस्य अध्यक्षः आसीत् तदा वित्तकोषे चौर्यम् अभवत्, यस्य विषये सूचना सर्वकारेण सह अस्ति। अस्मिन्नवसरे कांग्रेसप्रत्याशी आनंद: शर्मा, कृषिमंत्री चंद्रकुमार:, राज्ययोजनाबोर्डस्य उपाध्यक्ष: भवानीसिंह: पठानिया, विधायक: मलेन्द्रराजन: इत्यादय: उपस्थिता: आसन्।