तिब्बती- धर्मगुरुणा दलाईलामावर्येण सह धर्मशालायां मिलितवान् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता- धर्मशाला।
हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शुक्रवासरे तिब्बती आध्यात्मिकनेता दलाईलामा इत्यस्य धर्मशालानगरस्य निवासस्थाने मिलितवान्।
वार्तासंस्था एएनआई इत्यनया सह सम्भाषणं कुर्वन् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् दलाईलामा हिमाचलस्य प्रशंसाम् अकरोत्, तत् अतीव सुन्दरं राज्यम् इति उक्तवान् तथा च भारतं सर्वधर्मानाम् आदरं कुर्वन् अतीव सुन्दरः देशः इति अवदत्।
दलाईलामा भारतं सुन्दरः देशः इति उक्तवान्
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् अहं तस्य आशीर्वादं गृहीतवान्। सः (दलाई लामा) अवदत् यत् हिमाचलप्रदेशः अतीव सुन्दरः प्रदेश: अस्ति, भारतदेश: अतीव सुन्दरः देशः अस्ति, अस्माकं संस्कृतिषु सर्वेषां धर्माणां बहुआदरः अस्ति। तिब्बती- आध्यात्मिकनेता सर्वेभ्यः राजनैतिक-पृष्ठभूमिभ्यः जनानां कृते सर्वदा महत् ध्यानं प्राप्नोति। ततः पूर्वं अप्रैलमासे मण्डी लोकसभाया: निर्वाचनक्षेत्रस्य भाजपाप्रत्याशी कङ्गना रणौत आध्यात्मिकगुरुं मिलितवती आसीत्।