Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
- लोकसभानिर्वाचनस्य षष्ठचरणस्य अष्टपञ्चाशत्- संसदीयासनेषु अद्य मतदानं भविष्यति। अस्मिन् चरणे बिहारे अष्ट, हरियाणाप्रदेशे दश, झारखण्डे चत्वारि, देहल्यां सप्त, ओडिशाप्रान्ते षट्, उत्तरप्रदेशे चतुर्दश, पश्चिमबङ्गे अष्ट, जम्मू-कश्मीरे च एकस्मिन् आसने मतदानं भविष्यति। मतदानं प्रातः ७ वादने आरभ्यते।
- पापुआ न्यू-गिनीदेशस्य एकस्मिन् दूरस्थे क्षेत्रे भूस्खलने न्यूनातिन्यूनं १०० जनाः मृताः। आस्ट्रेलिया- प्रसारणनिगमेन सूचितं यत् इङ्गाप्रान्तस्य काओकोलमग्रामे भूस्खलनं जातम्। मृतानां संख्या वर्धते इत्यपेक्षा अस्ति।
- प्रधानमंत्री नरेन्द्रमोदी शुक्रवासरे हिमाचलप्रदेशस्य लोकसभानिर्वाचनमभिलक्ष्य एकदिवसीयं भ्रमणं कृतवान्। प्रधानमंत्री मोदी सर्वप्रथमं शिमलासंसदीयक्षेत्रस्य सिरमौरजनपदस्य मुख्यालये ऐतिहासिके चौगान-प्राङ्गणे जनसभाम् अकरोत्। प्रधानमंत्रिणा पहाड़ीभाषायां भाषणस्य आरम्भः कृतः। असौ “सभी खे मेरी ढाल, सभी खे रामराम…” इत्युक्त्वा जनान् सम्बोधितवान्। प्रधानमंत्रिणा कथितं यत् अहं अनुभवामि यथा स्वगृहम् आगतः अस्मि। प्रधानमंत्री स्थानीयव्यञ्जनानाम् अपि उल्लेखं कृतवान्।
- हिमाचलप्रदेशस्य लघ्वीकाश्यां मण्ड्यां जनसभां सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् पालमपुरम् इतः दूरं नास्ति। “अद्य अहं भवन्तं स्मारयितुम् इच्छामि यत् भाजपा कार्यसमितेः सभा पालमपुरे अभवत्। तत्र गृहीतनिर्णयैः इतिहासः निर्मितः। तस्मिन् एव सत्रे भाजपया अयोध्यायां भव्यराममन्दिरस्य निर्माणस्य संकल्प: स्वीकृत: अर्थात् हिमाचलप्रदेश: राममन्दिरनिर्माणस्य संकल्पभूमि: अस्ति” इति।
- हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शुक्रवासरे तिब्बती आध्यात्मिकनेता दलाईलामा इत्यस्य धर्मशालानगरस्य निवासस्थाने मिलितवान्। वार्तासंस्था एएनआई इत्यनया सह सम्भाषणं कुर्वन् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् दलाईलामा हिमाचलस्य प्रशंसाम् अकरोत्, तत् अतीव सुन्दरं राज्यम् इति उक्तवान् तथा च भारतं सर्वधर्मानाम् आदरं कुर्वन् अतीव सुन्दरः देशः इति अवदत्।
- राष्ट्रियराजधानीक्षेत्रम् देहलीम् इव अधुना चण्डीगढे अपि नूतनं हिमाचलभवनं निर्मितं भविष्यति। तदर्थं राज्यसर्वकारेण कार्मिकविभागस्य प्रधानसचिवस्य डॉ. अमनदीपगर्गस्य अध्यक्षतायां समितिः निर्मिता अस्ति। अत्र सामान्यप्रशासनविभागस्य अधिकारिणः अपि सन्ति। एषा समितिः निर्वाचनआचारसंहितायां भूमिं अन्तिमरूपेण निर्धारयिष्यति।
- भारतीयचलचित्रं ‘सनफ्लावर्स वर द फर्स्ट वन्स टु नो’ इत्यनेन कान्स-चलचित्रमहोत्सवे “ला सिनेफ” इति पुरस्कार: प्राप्त:।