Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
- ईरानस्य राष्ट्रपतिः इब्राहिमरायसी उद्ग्रविमानस्य दुर्घटनायां मृतः। तेन सह विदेशमन्त्री हुसैन-अब्दुल्लाहियान:, अधिकारिणाम् दलं च आसीत् । वार्तासंस्था (न्यूज एजेन्सी इरना) इरना इत्यनेन ईरानस्य रेड-क्रिसेण्ट-सोसाइटी इत्यनया उद्धृतं यत् उद्ग्रविमानस्य भग्नावशेषाः ईरानस्य वायव्यक्षेत्रे प्राप्ताः सन्ति तथा च घटनास्थले कोऽपि जीवितः इति कोऽपि संकेतः नास्ति।
- इरानस्य राष्ट्रपतिः डॉ. सेयद इब्राहिम रायसी, विदेशमन्त्री हुसैन अमीर अब्दुल्ला च इत्यनयो: विमानदुर्घटनायां मृत्योः कारणात् भारतेन एकदिवसीयः राष्ट्रियशोकः घोषितः।
- लोकसभानिर्वाचनस्य अवशिष्टयोः चरणयोः प्रचारः तीव्रः अभवत् । राजनैतिकदलानां वरिष्ठनेतारः स्वपक्षस्य समर्थनं प्राप्तुं जनसभाः, मार्गप्रदर्शनानि च कुर्वन्ति। प्रधानमंत्री नरेन्द्रमोदी गतदिवसे ओडिशा-पश्चिमबङ्गयोः च जनसभा: अकरोत् कटकनगरं भारतस्य प्राचीनतमनगरेषु अन्यतमम् अस्ति तथा च आधुनिकशिक्षायाः केन्द्रम् अस्ति। सः प्रतिज्ञातवान् यत् यदि राज्ये तस्य सर्वकारस्य निर्माणं भवति तर्हि तण्डुलानां न्यूनतमसमर्थनमूल्यं प्रतिक्विण्टलं २२०० रुप्यकात् ३१०० रुप्यकाणि यावत् वर्धयिष्यते।
- भारतस्य दीप्तिजीवनजी विश्वविक्रमं भङ्गयित्वा जापानदेशस्य कोबेनगरे विश्वपैरा एथलेटिक्सप्रतियोगितायां महिलानां ४०० मीटर् टी-२० स्पर्धायां प्रथमं स्वर्णपदकं प्राप्तवती।
हिमाचलवार्ता:
- भाजपाप्रत्याशी कङ्गनारनौत इत्यनया उक्तं यत् सीम्नि स्थितानां क्षेत्राणां विकासे प्रधानमन्त्री नरेन्द्रमोदी महत्त्वपूर्णां भूमिकां निर्वहति। केन्द्रसर्वकारेण प्रत्येकं पक्षं स्पृशितुं प्रयत्नः कृतः। अद्य राष्ट्रपतित्वेन द्रौपदी मुर्मू जनजातीसमाजस्य गौरवम् अस्ति।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे चम्बाजनपदस्य चुराह विधानसभाक्षेत्रस्य काङ्गड़ा- लोकसभाक्षेत्रतः काङ्ग्रेसप्रत्याशिन: आनन्दशर्मण: पक्षे प्रचारं कृत्वा आनन्दशर्मा विशालमतैः विजयी करणीयः इति जनान् प्रार्थितवान्। अस्मिन् समये निर्वाचनेन देशस्य राज्यस्य च भविष्यस्य राजनीतिः नूतना दिशा प्रदास्यति। काङ्ग्रेसपक्षस्य ६ विधायकाः भारतीयजनतापक्षेण क्रीताः सन्ति, एतद् निर्वाचनम् अश्वव्यापारराजनीतेः समुचितम् उत्तरं दातुं निर्वाचनम् अस्ति। सः अवदत् यत् अस्मिन् समये राज्यस्य जनाः विक्रयविधायकानाम् अपि च क्रयणपक्षस्य कृते कठिनं पाठं पाठयिष्यन्ति।
- काजायां निर्वाचनप्रचारकाले काङ्ग्रेसकार्यकर्तृभि: मण्डीसंसदीयनिर्वाचनक्षेत्रस्य भाजपाप्रत्याशी कङ्गनारनौत इत्यस्या: विरुद्धं प्रदर्शनं प्रति भाजपया प्रहारं कृतम्। लाहौल-स्पीति विधानसभाक्षेत्रतः भाजपा प्रत्याशी रविठाकुरः अवदत् यत् सोमवासरे भाजपायाः सभा अभवत्, तत्सहकालं काङ्ग्रेसस्य सभा अपि अभवत्। सः आरोपितवान् यत् काङ्ग्रेसकार्यकर्तारः भाजपाकार्यकर्तृणां उपरि आक्रमणं कृतवन्तः। अस्मिन् एकः भाजपा कार्यकर्ता घातितः अस्ति।
- भीष्मतापेन सम्पूर्णम् उत्तरभारतं तप्तं जातम्। हिमाचलम् अपि अनेन अस्पृष्टं नास्ति, यस्मात् कारणात् हिमाचलस्य विद्यालयानां समयः परिवर्तितः अस्ति। काङ्गड़ामण्डलस्य सर्वे विद्यालया: अधुना प्रातः सार्धसप्तवादने उद्घाटिता: भविष्यन्ति, अपराह्ने एकवादने तु पिहिता: भविष्यन्ति। अस्मिन् विषये उपायुक्तेन काङ्गराद्वारा आदेशाः निर्गताः सन्ति। तथैव बिलासपुरे अपि अधुना प्रातः अष्टवादने विद्यालयाः उद्घाटिताः भविष्यन्ति, अपराह्णे द्विवादने तु निरुद्धा भविष्यन्ति। मण्डी-सोलन-हमीरपुर-सिरमौर-इत्यादिषु जनपदेषु अपि विद्यालयानां समयः परिवर्तितः अस्ति।