Himachal News : विश्वस्य लघुतमायै महिलायै ज्योति इत्यस्यै अरोचयत् कुल्लू-मनाली, हिमपाते पुनः आगमनस्य स्वप्नं गृहीत्वा प्रत्यागता
हिमसंस्कृतवार्ता- कुल्लू:।
विश्वस्य लघुतमायै महिलायै ज्योति आम्गे इत्यस्यै कुल्लूमनालीक्षेत्रयो: उपत्यका: रोचन्ते। सा हिमपातकाले कुल्लू-मनाली-भ्रमणस्य स्वप्नं गृहीत्वा नागपुरं प्रत्यागतवती अस्ति। ६२.८ से.मी. उच्चज्योति आम्गे विश्वस्य लघुतमा महिला अस्ति, सा गतपञ्चदिनानि यावत् कुल्लुमण्डलस्य ऊझी उपत्यकायां निवसति स्म। सा कुल्लूजनपदस्य हिडिम्बामन्दिरस्य, सोलङ्गनालाक्षेत्रस्य, अटलकन्दराया:, लाहौलस्पीतिक्षेत्रस्य हिमकेन्द्रं कोकसरस्य च सुन्दर- उपत्यकानाम् आनन्दं लभते स्म। ऊझी उपत्यकायाः वामतटक्षेत्रं तस्यै अतीव रोचते स्म। सा वामतटे स्थितस्य धरोहरग्रामस्य नग्गरस्य समीपस्थे धौमसुग्रामे पञ्चदिनानि यावत् स्थितवती। ततः ज्योति आम्गे भ्रमितुं गच्छति स्म। सा अवदत् यत् यदा यदा हिमपातः भविष्यति तदा पुनः कुल्लुम् आगमिष्यामि इति। कुल्लु-उपत्यकासु यः आनन्दः लब्धः सः अन्यत्र न लभ्यते इति उक्तवती।