कांग्रेसनेत्रा राहुल गान्धी उत्तरप्रदेशस्य उच्चकोट्याः रायबरेली-निर्वाचन क्षेत्रात् स्वीयं नामांकनं प्रपूरितवान्
उत्तरप्रदेशे गतदिनम् उच्चकोट्याः नामांकन-दिनं वर्तते। कांग्रेसनेत्रा राहुल गान्धी उत्तरप्रदेशस्य उच्चकोट्याः रायबरेली-निर्वाचन क्षेत्रात् स्वीयं नामांकनं प्रपूरितवान्। नामांकनात् प्राक् राहुल-गान्धिना बृहद्-प्रथप्रदर्शनं विहितम्। अत्रावसरे वरिष्ठ-कांग्रेस नेत्री सोनिया गान्धी, दलाध्यक्षः मल्लिकार्जुन खड्गे, महासचिवा: प्रियंकागान्धीवाड्रा, अशोक गहलोतः इत्येतान् समेत्य स्रहस्त्रश: दलकार्यकर्तारः अपि अस्मिन् पथप्रदर्शने भागं स्वीकृतवन्तः। रायबरेलीतः भाजपाप्रत्याशी दिनेशप्रतापसिंहः सहैव अमेठीत: कांग्रेस दलस्य प्रत्याशी किशोरीलालशर्मा चापि अद्य स्वनामांकनं प्रस्तावितवन्तौ।
राज्ये तृणमूल कांग्रेस दलस्य एकेनैव प्रत्याक्षिना ललितेशपति त्रिपाठिना अद्य भदोही आसन-तः नामांकनं प्रस्तुतम्। अपरत्र च समाजवादी दलस्य कैसरगंज- आसनात् भगतराममिश्रेण, फतेहपुरत: नरेशउत्तमपटेलेन प्रत्याशित्वं घोषितम्, ध्येयमस्ति यत्- भाजपादलेन ह्य: कैसरगंज- आसनात् बृजभूषणसिंहस्य पुत्रस्य करणभूषणसिहंस्य प्रत्याशित्वं घोषितम् आसीत्। अथ च दक्षिणदिल्ली लोकसभाक्षेत्रतः भाजपादलस्य प्रत्याशी रामवीरसिंहबिधूडी नैजं नामाङ्कनं प्रस्तुतवान्। नामाङ्कनात् पूर्वं बिधूडीवर्येण लाडोसरायत: साकेतपर्यन्तं पथप्रदर्शनम् अपि आचरितम्, अस्मिन् अवसरे उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी, दिल्ली भाजपाध्यक्षः वीरेन्द्र सचदेवा, अन्ये च नेतारः उपातिष्ठन्त।
कांग्रेसनेत्रा राहुल गान्धिना उत्तरप्रदेशस्य उच्चकोट्याः रायबरेली-निर्वाचन क्षेत्रात् स्वीयं नामांकनं प्रपूरितम्
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment