‘राज्यस्य आर्थिकस्थित्यै भाजपा उत्तरदायी अस्ति’
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
मुख्यसंसदीयसचिवौ सुन्दरलालठाकुर-आशीषबुटेलौ च उक्तवन्तौ यत् हिमाचलप्रदेशं आर्थिकदुःखदशायां स्थापयितुं भाजपायाः आर्थिककुप्रबन्धः एव उत्तरदायी अस्ति। तौ अवदताम् यत् पूर्वभाजपासर्वकारस्य कार्यकाले यत् दुरुपयोगं जातम्, यस्मिन् सत्यं राज्यस्य जनानां समक्षं स्थापितं तस्य विषये राज्यसर्वकारेण अपि विधानसभायां श्वेतपत्रम् आनीतमासीत्। सत्यं तु एतत् यत् पूर्वभाजपासर्वकारेण गतवर्षे एव निर्वाचनं जेतुम् सर्वकारीयकोषस्य बहुधा दुरुपयोगः कृतः।
उभौ नेतारौ अवदताम् यत् निर्वाचनं जेतुं पूर्वसर्वकारेण काङ्ग्रेसविरुद्धं चक्रव्यूहः निर्मितः, अमृतमहोत्सवः, प्रगतिशीलः हिमाचलः, जनमञ्चः, स्थापनादिवसः च कार्यक्रमेषु १६,२६१ कोटिरूप्यकाणि अपव्ययितानि। परिणामः अभवत् यत् २०२२-२३ वित्तीयवर्षस्य अन्ते हिमाचलस्य ९२,७७४ कोटिरूप्यकाणाम् ऋणं देयता च सञ्चितम् आसीत्। तौ अवदताम् यत् पूर्वभाजपासर्वकारस्य नीतीनां कारणात् एव अद्य प्रत्येकं हिमाचली एकलक्षरूप्यकाधिकम् ऋणी अस्ति।
मुख्यसंसदीयसचिवाः अवदन् यत् मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: इत्यस्य नेतृत्वे वर्तमानराज्यसर्वकारेण आर्थिकनीतिषु विकास: कृतः यस्य कारणेन राज्यसर्वकारस्य राजस्वं २२०० कोटिरूप्यकाणां वृद्धिः अभवत्। राज्यसर्वकारेण मद्यविक्रयस्थानानां निविदाभि: अतिरिक्तं राजस्वं संग्रहीतम्। एतदतिरिक्तं राज्यसर्वकारेण भ्रष्टाचारस्य नियन्त्रणं कृत्वा जनकल्याणार्थं सार्वजनिकधनस्य उपयोगः अपि कृतः, यस्य कारणात् अद्यत्वे महिलानां, कृषकाणां, श्रमिकाणाम्, अन्यवर्गस्य च हिताय बहवः योजनाः प्रचलन्ति। मुख्यमन्त्री स्वस्य प्रथमे एव आयव्ययके आर्थिकविकासस्य आधारं स्थापितवान्, एतेषां प्रयत्नानाम् सकारात्मकं परिणामं च दृश्यते। आगामी काले सुखविन्दरसिंहसुक्खो: नेतृत्वे हिमाचलप्रदेशः आर्थिकरूपेण समृद्धः भविष्यति। सुन्दरलालठाकुरः आशीषबुटेलः च उक्तवन्तौ यत् भाजपानेतारः मृषावादस्य कृते निपुणाः सन्ति, ते मिथ्यावाक्यानि वदन् राज्यस्य जनान् भ्रमितुं प्रयतन्ते। हिमाचलप्रदेशस्य जनाः शिक्षिताः सन्ति, सत्यं असत्यं च कथं भेदं कर्तव्यम् इति बहु सम्यक् जानन्ति।