Lok Sabha Election : लोकसभानिर्वाचनस्य सम्पादनाय हिमाचले आरब्ध: निर्वाचनाभ्यास:
हिमसंस्कृतवार्ता- मण्डी।
निर्वाचनस्य पर्व: देशस्य गौरव: इत्यस्य ध्येयं स्वीकृत्य हिमाचले लोकसभानिर्वाचनस्य सम्पादनाय निर्वाचनविभागेन पूर्वाभ्यासस्य कार्यक्रम: आरब्ध: अस्ति। प्रदेशस्य बहुषु विधानसभाक्षेत्रेषु बुद्धवासरे पीठासीनाधीकारिणां मतदानाधिकारिणां च निर्वाचन- पूर्वाभ्यास: अभवत्। अस्मिन्नैव क्रमे मण्डीजनपदे अपि पीठासीनाधीकारीणां मतदानाधिकारीणां च पृथक- पृथकसत्रे प्रथम: पूर्वाभ्यास: सम्पन्न:। मण्डीजनपदस्य मण्डीसदर- विधानसभाक्षेत्रस्य प्रशिक्षणं वल्लभ- राजकीय- महाविद्यालयस्य सभागारे अभवत्। यस्मिन् लोकसभानिर्वाचनस्य सम्पादनाय ध्यातव्यानां बिन्दूनां प्रशिक्षणं निर्विचनप्रशिक्षकै: प्रदत्तम्। अनेन मतदानकार्ये नियुक्तानां कर्मचारिणां कृते मतदानार्थं डाकमतपत्राणां प्राप्त्यै अपि प्रपत्राणि अधिकारिभि: स्वीकृतानि। येन मतदानकार्ये नियुक्ता: कर्मचारिण: अपि स्वमतदानस्य प्रयोगं कर्तुं शक्नुयु:।