राष्ट्रपतिः द्रौपदी मुर्मू विश्वस्तरीयां चिकित्साशिक्षां चिकित्सासेवां च प्रदातुं एम्स इत्यस्य प्रशंसाम् अकरोत्
राष्ट्रपतिः द्रौपदी मुर्मू अखिल-भारतीय-चिकित्सा-विज्ञान-संस्थान- एम्स इत्यस्य प्रशंसाम् अकरोत् यत् सः विश्वस्तरीयचिकित्साशिक्षां चिकित्सासेवां च प्रददाति। राष्ट्रपतिः गतदिने उत्तराखण्डे एम्स ऋषिकेशस्य चतुर्थं दीक्षांतसमारोहं सम्बोधयन् आसीत्। चिकित्साक्षेत्रे तीव्रपरिवर्तनानाम् उल्लेखं कृत्वा राष्ट्रपतिः चिकित्साशास्त्रस्य छात्रान् एतेषु परिवर्तनेषु अनुकूलतां प्राप्तुं आग्रहं कृतवती। दीक्षांतसमारोहे पञ्चशतानि अष्टनवतिः छात्राः उपाधिभिः पुरस्कृताः। असाधारणप्रतिभायुक्तानां छात्राणां कृते १४ स्वर्णपदकसहितं १६ पदकानि प्रदत्तानि। समारोहस्य अनन्तरं राष्ट्रपतिः परमार्थनिकेतनस्य गंगाघाटे गंगाआरत्यां भागं गृहीतवती।
राष्ट्रपतिः द्रौपदी मुर्मू विश्वस्तरीयां चिकित्साशिक्षां चिकित्सासेवां च प्रदातुं एम्स इत्यस्य प्रशंसाम् अकरोत्
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment