CM Sukhu: ‘पालमपुरपीडिताया: चिकित्सायाः व्ययः सर्वकारः वहति’
हिमसंस्कृतवार्ता- पालमपुरम्।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे पालमपुरे सद्यैव घटिताया: हृदयविदारकघटनायाः पीडितायाः परिवारजनैः सह मिलितवान्। धर्मशालातः सुजानपुरम् आगच्छन् मुख्यमन्त्री सुलहक्षेत्रस्य नाल्टी- दा- सेतुसमीपे समागतान् जनान् मिलित्वा तेषां वचनं श्रुतवान्। स्नातकोत्तरचिकित्सासंस्थाने (पीजीआई) चण्डीगढ़े पीडितायाः मातापितरौ पुत्र्या सह सन्ति, अतः परिवारस्य अन्ये सदस्याः सम्पूर्णघटनायाः विषये मुख्यमन्त्रीं सूचितवन्तः। ते आक्रमणकर्तुः विरुद्धं कठोरतमं कार्यं कर्तुं आग्रहं कृतवन्त:। तस्य वचनं श्रुत्वा मुख्यमन्त्री पालमपुरस्य दुःखदघटनायाः दुःखितः इति उक्तवान्। पीडितपुत्र्याः चिकित्सायाः सम्पूर्णं व्ययः हिमाचलसर्वकारः वहति। पीडितायाः परिवारेण सह सर्वकारः तिष्ठति। पुलिसाधीक्षक-(एसपी) काङ्गड़ा इत्यस्यै आवश्यका: निर्देशा: दत्ता: सन्ति। घटनायाः अनन्तरं प्रतिदिनं पुलिसाधिकारिभ्यः सूचना गृह्यते। अभियुक्तः गृहीतः अस्ति। केवलं गृहीतत्वं न अस्माकं लक्ष्यम्। एतादृशाः घटनाः किमर्थं क्रियन्ते इति दिशि गन्तुम् आवश्यकता वर्तते। वयं ज्ञातुमिच्छामः यत् एतादृशाः घटनाः किमर्थं भवन्ति। राज्ये विधिव्यवस्थायाः स्थितिः सर्वथा सुष्ठु अस्ति, कस्यचित् विधानस्य उल्लङ्घनं न भविष्यति।