मुख्यमन्त्री राज्ये अराजकतां प्रसारयितुम् इच्छति : राजीवबिन्दलः
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
भाजपादलस्य प्रदेशाध्यक्ष: डा. राजीवबिन्दलः उक्तवान् यत् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः भुट्टों ताडय अर्थात् ‘भुट्टो को कुट्टो’ इति घोषम् उत्थाप्य स्पष्टं कृतवान् यत् सः राज्ये अराजकतां, एकाधिपत्यं, उपद्रवं, उत्पीडनं च सृजितुं इच्छति। मुख्यमन्त्री अराजकताप्रसारनीतेः कारणात् एव चम्बानगरे दलितयुवकस्य निर्ममहत्या अभवत् । वर्तमानसर्वकारे राज्ये ५०० तः अधिकाः हत्याः, महिलाभिः सह अनाचारस्य, बलात्कारस्य च प्रायः १००० प्रकरणाः, कृत्रिममादकद्रव्याणां २००० तः अधिकाः प्रकरणाः च ज्ञाताः सन्ति काङ्ग्रेसविधायकाः स्वपक्षस्य विरुद्धं किमर्थं गतवन्तः इति उत्तरं मुख्यमन्त्री स्वयमेव दत्तवान्, सः विधायकान् किमपि न अवगच्छति इति। अस्य कारणात् ४३ विधायकैः आरब्धः सर्वकारः ३४ विधायकान् यावत् प्राप्त: । मुख्यमन्त्रिण: कथनेन सिद्धं भवति यत् सः आतङ्कितः, व्याकुलित:, मानसिकसन्तुलनं नष्टवान् च अस्ति। अतः विद्रोही विधायकाः १५ कोटिरूप्यकेण विक्रीताः परन्तु तेषां नेता एतस्मात् अधिकं गृहीतवान् स्यात्। उपनिर्वाचने वयं जनसामान्यं वक्ष्यामः यत् विक्रयणं विजयी न भवति एतादृशानि वक्तव्यानि ददाति।