HP Politics : ये कङ्गनां बहिर्निवासी इति वदन्ति ते राज्यसभा प्रत्याशीं कुतः आनीतवन्त: ?
हिमसंस्कृतवार्ता- मण्डी।
पूर्वमुख्यमन्त्री, विपक्षनेता जयरामठाकुरश्च उपमुख्यमन्त्रिण: मुकेश अग्निहोत्रिण: वक्तव्ये प्रत्युत्तरं कृतवान्। मण्डीनगरे जयरामठाकुरः अवदत् यत् कङ्गनारणौत बहिर्त: प्रत्याशी इति ये वदन्ति ते प्रथमं राज्यसभाप्रत्याशीं कुतः आनीतवन्त: इति वदन्तु। कङ्गनारणौत हिमाचलस्य मण्डीक्षेत्रस्य च पुत्री अस्ति। मण्डीमण्डलस्य भाम्बलायां कङ्गनाया: गृहम् अस्ति, मनालीनगरे अपि कङ्गना स्वगृहं निर्मितवती अस्ति। मुकेश अग्निहोत्री तथा सर्वे नेतारः एतद् सर्वं विषयम् अवगतमस्ति। मुकेश अग्निहोत्री इत्यनेन एतादृशानि वचनानि दातुं पूर्वं चिन्तयित्वा एव अवगत्य कथनानि दातव्यानि।
विक्रमादित्यं प्रति विचार्य वक्तव्यं दातुम् उपदेशः”
जयरामठाकुरः अपि मन्त्रिमण्डलमन्त्री विक्रमादित्यसिंहं विचारपूर्वकं वक्तव्यं दातुं परामर्शं दत्तवान्। सः अवदत् यत् कङ्गनारणौत मायानागरीभाषायां यत् नाम अर्जितवती, महतीं ऊर्ध्वतां प्राप्तवती, तत् सुलभं कार्यं नास्ति। न हि सर्वेषां कृते एतत् कर्तुं शक्यते। अतः यदि कस्यचित् क्षेत्रविशेषे स्वस्य चिह्नं कृतम् अस्ति तर्हि तस्य आदरः करणीयः। विक्रमादित्यसिंहस्य विचारपूर्वकं वक्तुं आवश्यकता वर्तते।
राज्ये कस्यापि मिशनकमलस्य आवश्यकता नास्ति
जयरामठाकुरः अवदत् यत् राज्ये भाजपायाः कस्यापि प्रकारस्य मिशनकमलस्य (ऑपरेशन लोटस) आवश्यकता नास्ति। स्वसर्वकारेण दलेन च दुःखिताः काङ्ग्रेसनेतारः स्वयमेव भाजपायां सम्मिलिताः सन्ति। राज्यस्य स्थितिः एतादृशी अभवत् यत् प्रदेशाध्यक्षा मण्डीसांसदप्रतिभा च निर्वाचनं कर्तुं नाङ्गीकरोति। यतः न नेतॄणां कार्याणि जायन्ते न च विधायकानां कार्याणि सम्भवन्ति। अतः आगामिसमये सर्वकारः दूरं गमिष्यति, पुनः राज्ये भाजपासर्वकारस्य निर्माणं भविष्यति इति निश्चितम्।