Dalai Lama : धर्मशालाया: जलं मसूरीदुग्धात् अपि श्रेष्ठम्- दलाईलामा
हिमसंस्कृतवार्ता- धर्मशाला।
धर्मशालायां यत् जलं प्राप्यते तत् दुग्धात् श्रेष्ठम् इति धर्मगुरु दलाईलामा उक्तवान् आसीत्। दलाई लामा १९६० तमे वर्षे अप्रैलमासस्य २९ दिनाङ्के धर्मशालानगरम् आगतः। धर्मगुरो: दलाईलामायाः जीवनाधारितस्य पुस्तकस्य अनुसारं मसूरीनगरं प्रत्यागत्य किञ्चित्कालानन्तरं दलाईलामा उक्तवान् आसीत् यत् अहं ज्ञातवान् यत् सर्वकारः अस्मान् धर्मशाला इति स्थाने स्थायिरूपेण निवासार्थं प्रेषयितुं योजनां कुर्वन् अस्ति। एतां वार्तां श्रुत्वा अहं चिन्तितः अभवम्। मया मानचित्रे धर्मशाला इति स्थानं अन्विष्य ज्ञातं यत् एतत् अपि मसूरी इव पर्वतस्थानकम् अस्ति, परन्तु बहु दूरम् अस्ति। धर्मशाला आगमनात् पूर्वं दलाई लामा तिब्बती अधिकारी जे. टी. कुंडेलिंग धर्मशालाया: विषये ज्ञानं कर्तुं प्रेषितवान्। सप्ताहानन्तरं यदा सः प्रत्यागतवान् तदा सः धर्मशालाजलं मसूरी-दुग्धात् श्रेष्ठम् इति घोषितवान्। एतत् श्रुत्वा दलाईलामा तत्क्षणमेव धर्मशालागमनाय अङ्गीकृतवान्।
दलाईलामा धर्मशालायां तिब्बतसर्वकारस्य निर्माणं कृतवान्। तस्य कारणात् धर्मशाला लघुलहासा उच्यते। १४ तमः तिब्बतीधर्मनेता दलाईलामा स्वस्य सहस्रशै: तिब्बतीसमर्थकैः सह १९५९ तमे वर्षे मार्चमासस्य ३१ दिनाङ्के शरणार्थीरूपेण भारतम् आगतः। तदनन्तरं प्रथमं भारतसर्वकारेण मक्लोड्गञ्जे स्थिते स्वर्गाश्रमे तिब्बतीजनानाम् कृते आश्रयः दत्तः। अस्मिन् काले धर्मगुरु: दलाईलामा प्रथमवारं मक्लोड्गञ्जस्य स्वर्गाश्रमे आश्रयं प्राप्तवान्। धर्मगुरु: १९७० पर्यन्तं क्रमशः १० वर्षाणि मक्लोड्गञ्जस्य स्वर्गाश्रमे व्यतीतवान्, यत्र अधुना पर्वतारोहणकेन्द्रं प्रचलति।
दलाई लामा ६५ वर्षपूर्वं भारतं प्राप्तवान्
१४ तमः दलाईलामा ६५ वर्षपूर्वं १९५९ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के तिब्बततः स्वपरिवारेण सह शरणार्थम् भारतम् आगतः। ३१ मार्चमासस्य तिथिः अत्यन्तं ऐतिहासिकः अस्ति। चीनदेशस्य तिब्बतस्य अधिकारत्वात् एतादृशी स्थितिः उत्पन्ना यत् १४ तम: दलाईलामा ततः प्रस्थाय भारते शरणं गन्तुं बाध्यः अभवत्। तस्मिन् समये दलाईलामा २३ वर्षीयः आसीत्। सः सैनिकवेषं कृत्वा स्वनिवासस्थानात् बहिः आगतः, इतः भारतयात्राम् आरब्धवान्। प्रायः ६५ वर्षाणि पूर्वं दलाईलामा हिमालयस्य दुर्गमपर्वता: उपत्यका: च लङ्घ्य पदातिरूपेण भारतीयसीमायां प्रविष्टवान्, ततः परं आध्यात्मिकनेता अत्र राजनैतिकशरणं गच्छति।