CM Sukhvinder Singh Sukhu: आगत: राम: गत: राम: (आयाराम-गयाराम) तथा धनशक्त्या: राजनीतिं कुर्वन्त: देवभूम्या: जनादेशं खण्डितवन्त:
हिमसंस्कृतवार्ता:- शिमला।
षट् विद्रोही कांग्रेसविधायकाः भाजपायां सम्मिलिताः अभवन् ततः परं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सामाजिकमाध्यमै: (सोशल मीडिया) प्रतिक्रियाम् अददत्। सः स्वस्य सोशल मीडियापटले एकस्मिन् उल्लेखे लिखितवान् यत् आगत: राम: गत: राम: (आयाराम-गयाराम) तथा धनशक्त्या: राजनीतिं कुर्वन्त: देवभूम्या: जनादेशं वञ्चयित्वा अद्य स्वगन्तव्यस्थानं चिन्वन्ति। अद्य ते तै: सह उपविष्टा: सन्ति ये पुरातनवृत्तियाचनायां (ओपीएस-याचनायां) कर्मचारिणां उपहासं कृतवन्तः। प्रश्नपत्रस्य रहस्योद्घाटनस्य भ्रष्टाचार: केन कृत्वा युवानां परिणाम: बाधित:। ये स्वहिताय स्त्रियाः विरुद्धं स्थितवन्तः, ये स्वस्य अनैष्ठिकतायाः, अश्वव्यापारराजनीत्याः च देवभूमे: आदर्शान् मूल्यानि च मर्दयन्ति स्म। परन्तु, लोकतन्त्रे जनता एव जनार्दन: भवति। ये धनार्थं स्वसम्मानं विक्रयन्ति ते धनेन जनानां प्रेम्णः समर्थनं च क्रेतुं न शक्नुवन्ति। जनसमूहः उत्तरं दास्यति।